SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 175 // श्रुतस्कन्ध:१ द्वितीयमध्ययन लोकविजय:, प्रथमोद्देशकः सूत्रम् 63 प्रमत्तस्वरूपम् जे गुणे से मूलट्ठाणे, जे मूलट्ठाणे से गुणे / इति से गुणट्ठी महया परियावेणं पुणो पुणो वसे पमत्ते-माया मे पिया मे भज्जा मे पुत्ता मे धूआ मे ण्हुसा मे सहिसयणसंगंथसंथुआ मे विवित्तुगरणपरिवट्टणभोयणच्छायणं मे / इच्चत्थं गड्डिए लोए वसे पमत्ते अहोयराओ यपरितप्पमाणे कालाकालसमुट्ठाई संजोगट्ठी अट्ठालोभी आलुपे सहसाकारे विणिविट्ठचित्ते, एत्थ सत्थे पुणो पुणो, अप्पं च खलु आउयं इहमेगेसिं माणवाणं तंजहा।सूत्रम् 63 // अस्य चानन्तरपरम्परादिसूत्रः सम्बन्धो वाच्यः, तत्रानन्तरसूत्रसम्बन्धः- से हु मुणी परिण्णायकम्मे ति, स मुनिः परिज्ञातका भवति यस्यैतद्गुणमूलादिकमधिगतं भवति, परम्परसूत्रसम्बन्धस्तु से जं पुण जाणिज्जा सहसंमइयाए परवागरणेणं अण्णेसिं वा सोच्चा स्वसम्मत्या परव्याकरणेन तीर्थकरोपदेशादन्येभ्यो वाऽऽचार्यादिभ्यः श्रुत्वा जानीयात् परिच्छिन्द्यात्, किं तदित्युच्यते- जे गुणे से मूलट्ठाणे, आदिसूत्रसम्बन्धस्तु सुयं मे आउसंतेणं भगवया एवमक्खायं किं तत् श्रुतं भवता यद्भगवता आयुष्मताऽऽख्यातमिति?, उच्यते, जे गुणे से मूलट्ठाणे, य इति सर्वनाम प्रथमान्तं मागधदेशीवचनत्वादेकारान्तं सामान्योदेशार्थाभिधायीति, गुण्यते-भिद्यते विशेष्यतेऽनेन द्रव्यमिति गुणः, स चेह शब्दरूपरसगन्धस्पर्शादिकः, स इति सर्वनाम प्रथमान्तमुद्दिष्टनिर्देशार्थाभिधायीति, मूल मिति निमित्तं कारणं प्रत्यय इति पर्यायाः, तिष्ठन्त्यस्मिन्निति स्थानम्, मूलस्य स्थानं मूलस्थानम्, व्यवच्छेदफलत्वाद्वाक्याना मिति न्यायाद्य एव शब्दादिकः कामगुणः स एव संसारस्य नारकतिर्यग्नरामरसंसृतिलक्षणस्य यन्मूलं कारणं कषायास्तेषां स्थानमाश्रयो वर्त्तते, यस्मान्मनोज्ञेतरशब्दाधुपलब्धौ कषायोदयः, ततोऽपि संसार इति, अथवा मूलमितिकारणम्, तच्चाष्टप्रकारं कर्म, तस्य स्थानं-आश्रयः कामगुण इति, अथवा मूलं मोहनीयं तद्भेदो // 175 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy