________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 174 / / साताबहुलं च तं कम्म॥१॥ अल्पं स्थितितः स्थितेरेवाभावात्, बादरं परिणामतोऽनुभावतो मृद्वनुभावम्, बहु च बहुप्रदेशैः, श्रुतस्कन्धः१ रूक्षंस्पर्शतो वर्णेन शुक्लं मन्दंलेपतः, स्थूलचूर्णमुष्टिमृष्टकुड्यापतितलेपवत् महाव्ययमेकसमयेनैव सर्वापगमात्, साताबहुल द्वितीयमध्ययन लोकविजयः, मनुत्तरोपपातिकसुखातिशायीति / उक्तमीर्यापथिकम्, अधुना आधाकर्म, यदाधाय-निमित्तत्वेनाश्रित्य पूर्वोक्तमष्टप्रकारमपि प्रथमोद्देशकः कर्म बध्यते तदाधाकर्मेति, तच्च शब्दस्पर्शरसरूपगन्धादिकमिति, तथाहि- शब्दादिकामगुणविषयाभिष्वङ्गवान् नियुक्ति: 193 सुखलिप्सुर्मोहोपहतचेताः परमार्थासुखमयेष्वपिसुखाध्यारोपं विदधाति, तदुक्तं दुःखात्मकेषु विषयेषु सुखाभिमानः, सौख्यात्मकेषु प्रमत्तस्वरूपम् नियमादिषु दुःखबुद्धिः। उत्कीर्णवर्णपदपङ्क्तिरिवान्यरूपा, सारूप्यमेति विपरीतगतिप्रयोगात्॥१॥एतदुक्तं भवति-कर्मनिमित्तभूता मनोज्ञेतरशब्दादय एवाधाकर्मेत्युच्यन्ते इति / तपःकर्म तस्यैवाष्टप्रकारस्य कर्मणो बद्धस्पृष्टनिधत्तनिकाचितावस्थस्यापित निर्जराहेतुभूतं बाह्याभ्यन्तरभेदेन द्वादशप्रकारं तपः कर्मेत्युच्यते / कृतिकर्म तस्यैव कर्मणोऽपनयनकारकमर्हत्सिद्धाचार्योपाध्यायविषयमवनामादिरूपमिति / भावकर्मा पुनरबाधामुल्लङ्य स्वोदयेनोदीरणाकरणेन वोदीर्णाः पुद्गलाः प्रदेशविपाकाभ्यां भवक्षेत्रपुद्गलजीवेष्वनुभावं ददतो भावकर्माशब्देनोच्यन्त इति / तदेवं नामादिनिक्षेपेण दशधा कर्मोक्तम्, इह तु समुदानकर्मोपात्तेनाष्टविधकर्मणाऽधिकार इति गाथाशकलेन दर्शयति नि०- अट्ठविहेण उ कम्मेण एत्थ होई अहीगारो॥ 193 / / गाथाड़ कण्ठ्यमिति गाथाद्वयपरमार्थः॥१९२-१९३॥ तदेवं सूत्रानुगमेन सूत्रे समुच्चारिते निक्षेपनियुक्त्यनुगमन प्रतिपदं निक्षिप्ते नामादिनिक्षेपे च व्याख्याते सत्युत्तरकालं सूत्रं विव्रियते // 174 //