________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 173 // श्रुतस्कन्धः१ द्वितीयमध्ययनं लोकविजयः, प्रथमोद्देशकः नियुक्ति: 192 कर्मनिक्षेपाः पञ्चम्येव, यथा खण्डमुण्डशबलशाबलेयधवलधावलेयव्यक्तिभ्यः कृष्णा सम्पन्नक्षीरतमेति, अतो नात्र विभाग: कारणमविभागोवा, यतो माथुरपाटलिपुत्रकादिविभागेन विभक्तानामपि सामान्यमनुष्यादिशब्दोच्चारणे षष्ठीसप्तम्यौ भवतो, यत्र तु पुनथुिरादिविशेषोऽवधित्वेनोपादीयते तत्र कार्यवशादेकस्थानामपि पञ्चम्येव, तदिह सत्यपि कर्मवर्गणानामेकत्वे तद्विशेषस्यावधित्वेनोपादानात्पञ्चम्येव न्याय्येति, तद्विशेषाधिका वेदनीये। उक्तःप्रदेशबन्ध: समुदानकर्मापीति।साम्प्रतमीर्यापथिकम्, ईर गतिप्रेरणयोः अस्माद्भावे ण्यत्, ईरणमीर्या तस्याः पन्था ईर्यापथस्तत्र भवमीर्यापथिकम्, कश्चर्यायाः पन्था भवति?, यदाश्रिता सा भवतीति?, एतच्च व्युत्पत्तिनिमित्तं यतस्तिष्ठतोऽपि तद्भवति, प्रवृत्तिनिमित्तं तु स्थित्यभावः, तच्चोपशान्तक्षीणमोहसयोगकेवलिनां भवति, सयोगकेवलिनोऽपि हि तिष्ठतोऽपि सूक्ष्मगात्रसञ्चारा भवन्ति, उक्तं च केवली णं भंते! अस्सिं समयंसि जेसु आगासपदेसेसु हत्थं वा पायं वा ओगाहित्ता णं पडिसाहरेज्जा, पभू णं भंते! केवली तेसु चेवागासपदेसेसु पडिसाहरित्तए?, णो इणढे समढे, कह?, केवलिस्स णं चलाई सरीरोवगरणाई भवंति, चलोवगरणत्ताए केवली णो सञ्चाएति तेसु चेवागासपदेसेसु हत्थं वा पायं वा पडिसाहरित्तए तदेवं सूक्ष्मतरगात्रसञ्चाररूपेण योगेन यत्कर्म बध्यते तदी-पथिकं ईर्याप्रभवं ईर्याहेतुकमित्यर्थः, तच्च द्विसमयस्थितिकं एकस्मिन् समये बद्धं द्वितीये वेदितं तृतीयसमये तदपेक्षया चाकर्मतेति, कथमिति?, उच्यते, यतस्तत्प्रकृतितः सातावेदनीयमकषायत्वात् स्थित्यभावेन बध्यमानमेव परिशटति, अनुभावतोऽनुत्तरोपपातिकसुखातिशायि प्रदेशतः स्थूलरूक्षशुक्लादिबहुप्रदेशमिति, उक्तं च अप्पं बायरमउयं बहुंच लुक्खं च सुक्किलं चेव / मंद महव्वतंतिय Oस (प्र०)। 0 केवली भदन्त! अस्मिन् समये येष्वाकाशप्रदेशेषु हस्तं वा पादं वाऽवगाह्य प्रतिसंहरेत्, प्रभुर्भदन्त! केवली तेष्वेवाकाशप्रदेशेषु प्रतिसंहर्तुम्?, नैषोऽर्थः समर्थः, कथं?, केवलिनश्चलानि शरीरोपकरणानि भवन्ति, चलोपकरणतया केवली न शक्नोति तेष्वेवाकाशप्रदेशेषु हस्तं वा पादं वा प्रतिसंहर्तुम् / // 13 // P