________________ // 172 / / श्रीआचाराङ्गप्रकृतीनांकोशातकीरससमक्वथ्यमानार्द्धत्रिभागपादावशेषतुल्यतया तीव्रानुभावोऽवगन्तव्यो, मन्दानुभावस्तु जातिरसैकद्वित्रि- श्रुतस्कन्धः१ नियुक्तिचतुर्गुणोदकप्रक्षेपास्वादतुल्यतयेति, शुभानांतु क्षीरेक्षुरसदृष्टान्तः पूर्ववद्योजनीयः, अत्र चकोशातकीक्षुरसादावुदकबिन्द्वादि द्वितीयमध्ययनं श्रीशीला० लोकविजयः, वृत्तियुतम् प्रक्षेपात् व्यत्ययाद्वा भेदानामानन्त्यमवसेयमिति / अत्र चायूंषि भवविपाकीनि आनुपूर्व्यः क्षेत्रविपाकिन्यः शरीरसंस्था प्रथमोद्देशकः नाङ्गोपाङ्गसङ्घातसंहननवर्णगन्धरसस्पर्शागुरुलघूपघातपराघातोद्योतातपनिर्माणप्रत्येकसाधारणस्थिरास्थिरशुभाशुभरूपाः नियुक्ति: 192 कर्मनिक्षेपाः पुद्गलविपाकिन्यः,शेषास्तु ज्ञानावरणादिका जीवविपाकिन्य इत्युक्तोऽनुभावबन्धः / प्रदेशबन्धस्त्वेकविधादिबन्धकापेक्षया भवति, तत्र यदैकविधं बध्नाति तदा प्रयोगकर्मणैकसमयोपात्ताः पुद्गलाः सातावेदनीयभावेन विपरिणमन्ते, षड्विधबन्धकस्य त्वायुर्मोहनीयवर्जः षोढा, सप्तविधबन्धकस्य सप्तधा, अष्टविधबन्धकस्याष्टधेति, तत्राद्यसमयप्रयोगात्ताः पुद्गलाः समुदानेन / द्वितीयादिसमयेष्वल्पबहुप्रदेशतयाऽनेन क्रमेण व्यवस्थापयन्ति तत्रायुषः स्तोकाः पुद्गलाः, तद्विशेषाधिकाः प्रत्येकं नामगोत्रयोः, परस्परं तुल्याः, तद्विशेषाधिकाः प्रत्येकं ज्ञानदर्शनावरणान्तरायाणाम्, तेभ्यो विशेषाधिका मोहनीये। ननु च तेभ्यो विशेषाधिका इत्यत्र निर्धारणे पञ्चमी, सा च पञ्चमी विभक्ते (पा०२-३-४२) इत्यनेन सूत्रेण विधीयते, अस्य चायमर्थो विभागो विभक्तं तत्र पञ्चमी विधीयमाना यत्रात्यन्तविभागस्तत्रैव भवति, यथा माथुरेभ्यः पाटलिपुत्रका अभिरूपतराः, इह च कर्मपुद्गलानां सर्वदैकत्वम्, तथावस्थानामेव च बुद्ध्या बहुप्रदेशादिगुणेन पृथक्करणं चिकीर्षितम्, तत्र षष्ठी सप्तमी वा न्याय्या, तद्यथा-गवां गोषु वा कृष्णा सम्पन्नक्षीरतमेति, नैष दोषो, यत्रावध्यवधिमतोः सामान्यवाची शब्दः प्रयुज्यते तत्रैवल 8 // 172 // षष्ठीसप्तम्यौ, यतश्च निर्धारण (पा०२-३-४१) मित्यनेन सूत्रेण विधीयेते, यथा गवां कृष्णा सम्पन्नक्षीरतमा, मनुष्येषु पाटलिपुत्रका: आढ्यतराः, कर्मवर्गणापुद्गलानां वेदनीये बहुतरा इति, यत्र पुनर्विशेषवाची शब्दोऽवधित्वेनोपादीयते तत्र