________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 171 // श्रुतस्कन्धः१ द्वितीयमध्ययन लोकविजयः, प्रथमोद्देशकः नियुक्ति: 192 कर्मनिक्षेपाः नामन्तर्मुहूर्तमन्तर्मुहर्तमेवाबाधा, निद्रापञ्चकासातावेदनीयानां षण्णां सागरोपमस्य त्रयः सप्तभागाः पल्योपमासङ्खयेयभागन्यूनाः,सातावेदनीयस्य द्वादश मुहूर्ता अन्तर्मुहूर्तमबाधा, मिथ्यात्वस्य सागरोपमं पल्योपमासङ्खयेयभागन्यूनम्, आद्यकषायद्वादशकस्य चत्वारः सप्तभागाः सागरोपमस्य पल्योपमासङ्खयेभागन्यूनाः, सज्वलनक्रोधस्य मासद्वयम्, मानस्य मासः, तदधुमायायाः, पुंवेदस्याष्टौ संवत्सराः, सर्वत्रान्तर्मुहूर्तमबाधा, शेषनोकषायमनुष्यतिर्यग्गतिपञ्चेन्द्रियजात्यौदारिकतदङ्गोपाङ्गतैजसकार्मणषट्संस्थानषट्संहननवर्णगन्धरसस्पर्शतिर्यग्मनुजानुपूर्वीअगुरुलघूपघातपराघातोच्छ्रासातपोद्योतप्रशस्ताप्रशस्तविहायोगतियशःकीर्त्तिवर्जवसादिविंशतिकनिर्माणनीचैर्गोत्रदेवगत्यानुपूर्वीद्वयनरकगत्यानुपूर्वीद्वयवैक्रियशरीरतदङ्गोपाङ्गरूपाणामष्टषष्ट्युत्तरप्रकृतीनां सागरोपमस्य द्वौ सप्तभागौ पल्योपमासनायेयभागन्यूनौ अन्तर्मुहूर्तमबाधा, वैक्रियषट्कस्य तु सागरोपमसहस्रस्य द्वौ सप्तभागौ पल्योपमासङ्खयेयभागन्यूनावन्तर्मुहूर्त्तमबाधा, आहारकतदङ्गोपाङ्गतीर्थकरनाम्नां सागरोपमकोटीकोटिर्भिन्नान्तर्मुहूर्त्तमबाधा, ननु चोत्कृष्टोऽप्येतावन्मात्र एवाभिहितस्ततः कोऽनयोर्भेद इति?, उच्यते, उत्कृष्टात् सङ्खयेयगुणहीनो जघन्य इति, यशःकीर्युच्चैर्गोत्रयोरष्टमुहूर्तान्यन्तर्मुहूर्तमबाधा, देवनारकायुषोर्दश वर्षसहस्राण्यन्तर्मुहूर्तमबाधा, तिर्यग्मनुजायुषोः क्षुल्लकभवोऽन्तर्मुहूर्त्तमबाधेति, बन्धनसङ्घातयोरौदारिकादिशरीरसहचरितत्वात्तद्गत एवोत्कृष्टजघन्यभेदोऽवगन्तव्य इति / उक्तः स्थितिबन्धः, अनुभावबन्धस्तूच्यते-तत्र शुभाशुभानां कर्मप्रकृतीनांप्रयोगकर्मणोपात्तानां प्रकृतिस्थितिप्रदेशरूपाणांतीव्रमन्दानुभावतयाऽनुभवनमनुभावः, सचैकद्वित्रिचतुःस्थानभेदेनानुगन्तव्यः, तत्राशुभ (r) गतिजातिपञ्चकौदा० (प्र०)। 0 देवद्विकनरकद्विकवैक्रियद्विकआहारकद्विकयशः कीर्तितीर्थकरनामकर्मरहितानां शेषनामप्रकृतीनां तथा नीचेर्गोत्रस्य चेत्यासामुत्तरप्रकृतीनां (प्र०)। // 171 //