SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 161 // भवन्ति / तेषां च प्रतिपादितशब्दादिस्थानानां प्रचुरस्थानत्वप्रतिपादनाय पुनरपि स्थानविशेष गाथाशकलेनाह श्रुतस्कन्धः१ द्वितीयमध्ययनं नि०- ते सयणपेसअत्थाइएसु अज्झत्थओ अठिआ॥१८९॥ लोकविजयः, स्वजन:-पूर्वापरसंस्तुतो मातापितृश्वशुरादिकः प्रेष्यो- भृत्यादिरों- धनधान्यकुप्यवास्तुरत्नभेदरूपः ते स्वजनादयः / / प्रथमोद्देशकः नियुक्तिः कृतद्वन्द्वा आदिर्येषां मित्रादीनां तेषु स्थिताः कषाया विषयरूपतया, अध्यात्मनि च विषयिरूपतया प्रसन्नचन्द्रैकेन्द्रियादीनामिति 189-190 गाथार्थः॥ 189 // तदेवं कषायस्थानप्रदर्शनेन सूत्रपदोपात्तं स्थानं परिसमाप्य तेषामेव कषायाणां सूत्रमूलपदोपात्तानां कषायनिक्षेपाः जेतव्यत्वाधिकृतानां निक्षेपमाह नि०- णामंठवणादविए उप्पत्ती पच्चए य आएसो। रसभावकसाए या तेण य कोहाइया चउरो॥१९०॥ यथाभूतार्थनिरपेक्षमभिधानमात्रं नाम, सद्भावासद्भावरूपा प्रतिकृतिः स्थापना, कृतभीमभूकुट्युत्कटललाट (पट) घटितत्रिशूलरक्तास्यनयनसन्दष्टाधरस्यन्दमानस्वेदसलिलचित्रपुस्ताद्यक्षवराटकादिगतेति, द्रव्यकषाया ज्ञशरीरभव्यशरीराभ्यां व्यतिरिक्ताः कर्मद्रव्यकषाया नोकर्मद्रव्यकषायाश्चेति, तत्रादित्सितात्तानुदीर्णोदीर्णाः पुद्गला द्रव्यप्राधान्यात् कर्मद्रव्यकषायाः, नोकर्मद्रव्यकषायास्तु बिभीतकादयः, उत्पत्तिकषायाः शरीरोपधिक्षेत्रवास्तुस्थाण्वादयो यदाश्रित्य तेषामुत्पत्तिः, तथा चोक्तं किं एत्तो कट्ठयरं जं मूढो थाणुअम्मि आवडिओ। थाणुस्स तस्स रूसइ न अप्पणो दुप्पओगस्स॥१॥ प्रत्ययकषायाः / / 161 // कषायाणां ये प्रत्ययाः-यानि बन्धकारणानि, ते चेह मनोज्ञेतरभेदाः शब्दादयः, अत एवोत्पत्तिप्रत्यययोः कार्यकारणगतो 0 किमेतस्मात्कष्टकरं यन्मूढः स्थाणावापतितः। स्थाणवे तस्मै रुष्यति नात्मनो दुष्प्रयोगाय // 1 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy