________________ श्रुतस्कन्धः१ द्वितीयमध्ययन लोकविजयः, | नियुक्ति: 188 स्थाननिक्षेपाः नियुक्तिः 189 कषायनिक्षेपाः श्रीआचाराङ्गं ते सर्वेऽपि मोहनीयमूलाः, न केवलं कषायाः, कामगुणा अपि मोहनीयमूलाः, यस्माद्वेदोदयात् कामाः, वेदश्च मोहनीयान्तः नियुक्ति पातीत्यतस्तन्मोहनीयं मूलं-आद्यं कारणं यस्य संसारस्य स तथा इति गाथार्थः॥१८७॥ तदेवं पारम्पर्येण संसारकषायश्रीशीला० वृत्तियुतम् कामानां कारणत्वान्मोहनीयं प्रधानभावमनुभवति, तत्क्षये चावश्यम्भावी कर्मक्षयः, तथा चाभाणि 'जह मत्थयसूईए, श्रुतस्कन्धः१ हयाए हम्मए तलो। तहा कम्माणि हम्मंति, मोहणिज्जे खयं गए॥१॥ तच्च द्विधा- दर्शनचारित्रमोहनीयभेदात्, एतदेवाह॥ 160 // नि०-दुविहो अहोइ मोहो दंसणमोहो चरित्तमोहो ।कामा चरित्तमोहो तेणऽहिगारो इहं सुत्ते॥१८८॥ मोहनीयं कर्म द्वेधा भवति, दर्शनमोहनीयं चारित्रमोहनीयं चेति, बन्धहेतोद्वैविध्यात्, तथाहि-अर्हत्सिद्धचैत्यतप:श्रुतगुरुसाधुसङ्गप्रत्यनीकतया दर्शनमोहनीयं कर्म बध्नाति, येन चासावनन्तसंसारसमुद्रान्तःपात्येवावतिष्ठते, तथा तीव्रकषायबहुरागद्वेषमोहाभिभूतःसन्देशसर्वविरत्युपघाति चारित्रमोहनीयं कर्म बध्नाति, तत्र मिथ्यात्वसम्यग्मिथ्यात्वसम्यक्त्वभेदात्त्रेधा दर्शनमोहनीयम्, तथा षोडशकषायनवनोकषायभेदाच्चारित्रमोहनीयं पञ्चविंशतिधा, तत्र कामाः शब्दादयः पञ्च चारित्रमोहः, तेन चात्र सूत्रेऽधिकारो, यतः कषायाणां स्थानमत्र प्रकृतम्, तच्च शब्दादिकपञ्चगुणात्मकमिति गाथार्थः // 188 // तत्र चारित्रमोहनीयोत्तरप्रकृतिस्त्रीपुंनपुंसकवेदहास्यरतिलोभाश्रितकामाश्रयिणः कषायाः संसारमूलस्य च कर्मणः प्रधानं कारणमिति प्रचिकटयिषुराह नि०-संसारस्स उ मूलं कम्मं तस्सवि हुंति य कसाया। संसारस्य नारकतिर्यग्नरामरगतिसंसृतिरूपस्य (मूल) कारणमष्टप्रकारं कर्म, तस्यापि कर्मणः-कषायाः क्रोधादयो निमित्तं 0 यथा मस्तकसूच्या हतायां हन्यते तालः / तथा कर्माणि हन्यन्ते मोहनीये क्षयं गते॥१॥ // 160 //