________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ | | 159 // भावेऽपि तत्स्वभावारोपणेनान्धादप्यन्धतमः कामी मोदते, यत आह दृश्यं वस्तु परं न पश्यति जगत्यन्धः पुरोऽवस्थितं, रागान्धस्तु / | श्रुतस्कन्धः१ यदस्ति तत्परिहरन् यन्नास्ति तत् पश्यति / कुन्देन्दीवरपूर्णचन्द्रकलशश्रीमल्लतापल्लवानारोप्याशुचिराशिषु प्रियतमागात्रेषु यन्मोदते // 1 // | द्वितीयमध्ययनं लोकविजयः, द्वेषं वा कर्कशशब्दादौ व्रजतीति, ततश्च मनोज्ञेतरशब्दादिविषयाः कषायाणांमूलस्थानम्, तेच संसारस्येति गाथातात्पर्यार्थः॥ प्रथमोद्देशकः 185 // यदि नाम शब्दादिविषयाः कषायाः कथं तेभ्यः संसार इति?, उच्यते, यतः कर्मस्थितेः कषाया मूलम्, साऽपि | नियुक्तिः 186-187 संसारस्य, संसारिणश्चावश्यंभाविनः कषाया इति, एतदेवाह स्थाननिक्षेपाः नि०-जह सव्वपायवाणं भूमीए पइट्ठियाई मूलाई। इय कम्मपायवाणं संसारपइट्ठिया मूला // 186 // यथा सर्वपादपानां भूमौ प्रतिष्ठितानि मूलानि, एवं कर्मपादपानां संसारे कषायरूपाणि मूलानि प्रतिष्ठितानीति गाथार्थः।। ननु च। कथमेतच्छ्रद्धेयं-कर्मणः कषाया मूलमिति?, उच्यते, यतो मिथ्यात्वाविरतिप्रमादकषाययोगा बन्धहेतवः, तथा चागमः जीवे णं भंते! कतिहिं ठाणेहिं णाणावरणिज्जं कम्मं बंधइ?, गोयमा! दोहिं ठाणेहिं, तंजहा रागेण व दोसेण व। रागे दुविहे- माया लोभे य, दोसे दुविहे- कोहे य माणे य। एएहिं चउहिं ठाणेहिं वीरिओवगूहिएहिं णाणावरणिज्ज कम्मं बंधइ एवमष्टानामपि कर्मणां योज्यमिति / ते च कषाया मोहनीयान्तःपातिनोऽष्टप्रकारस्य च कर्मणः कारणम्, मोहनीय कामगुणानां च (इति) दर्शयति नि०- अट्ठविहकम्मरुक्खा सव्वे ते मोहणिज्जमूलागा। कामगुणमूलगंवा तम्मूलागं च संसारो॥१८७॥ यदवादि प्राक्-'इय कम्मपायवाणं' तत्र कतिप्रकारास्ते कर्मपादपाः किंकारणाश्चेति?, उच्यते, अष्टविधकर्मवृक्षाः, 0 जीवो भदन्त! कतिभिः स्थानैर्ज्ञानावरणीयं कर्म बध्नाति?, गौतम! द्वाभ्यां स्थानाभ्याम्, तद्यथा-रागेण वा द्वेषेण वा। रागो द्विविधो-माया लोभश्च, द्वेषो द्विविधः-क्रोधश्च मानश्च, एतैश्चतुर्भिः स्थानैर्वीर्योपगूढैर्ज्ञानावरणीयं कर्म बध्नाति / // 159 //