SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 158 // श्रुतस्कन्ध:१ द्वितीयमध्ययन लोकविजयः, प्रथमोद्देशक: नियुक्ति: 185 स्थाननिक्षेपाः कैकं द्विधा- छिन्नाच्छिन्नभेदात्, तत्र द्रव्यच्छिन्नसन्धानं कञ्चकादेः, अच्छिन्नसन्धानं तु पक्ष्मोत्पद्यमानतन्त्वादेरिति, भावसन्धानमपि प्रशस्ताप्रशस्तभेदात् द्वेधा, तत्र प्रशस्ताच्छिन्नभावसन्धानमुपशमक्षपकश्रेण्यावारोहतो जन्तोरपूर्वसंयमस्थानान्यच्छिन्नान्येव भवन्ति, श्रेणिव्यतिरेकेण वा प्रवर्द्धमानकण्डकस्येति, छिन्नप्रशस्तभावसन्धानं पुनरौपशमिकादिभावादौदयिकादिभावान्तरगतस्य पुनरपि शुद्धपरिणामवतः तत्रैव गमनम्, अप्रशस्ताच्छिन्नभावसन्धानमुपशमश्रेण्याः प्रतिपततोऽविशुद्ध्यमानपरिणामस्यानन्तानुबन्धिमिथ्यात्वोदयं यावत्, उपशमश्रेणिमन्तरेणापि कषायवशात् बन्धाध्यवसायस्थानान्युत्तरोत्तराण्यवगाहमानस्य वा इति, अप्रशस्तच्छिन्नभावसन्धानं पुनरौदयिकभावादौपशमिकादिभावान्तरसङ्कान्तौ सत्यां पुनस्तत्रैव गमनमिति / इह द्वारद्वयं यौगपद्येन व्याख्यातम्, तत्र सन्धानस्थानं द्रव्यविषयमितरत्तु भावविषयमित्युक्तं स्थानम् / / 184 // अथवा भावस्थानं कषायाणां यत् स्थानं तदिह परिगृह्यते, तेषामेव जेतव्यत्वेनाधिकृतत्वात्, तेषां किं स्थानं?, यदाश्रित्य च ते भवन्ति, शब्दादिविषयानाश्रित्य च ते भवन्तीति तद्दर्शयति नि०-पंचसुकामगुणेसुय सद्दष्फरिसरसरूवगंधेसुं। जस्स कसाया वटुंति मूलट्ठाणं तु संसारे॥१८५॥ तत्रेच्छानङ्गरूपः कामस्तस्य गुणा यानाश्रित्यासौ चेतसो विकारमादर्शयति, ते च शब्दस्पर्शरसरूपगन्धास्तेषु पञ्चस्वपि व्यस्तेषु समस्तेषु वा विषयभूतेषु यस्य जन्तोर्विषयसुखपिपासोन्मुखस्यापरमार्थदर्शिनः संसाराभिष्वङ्गिणो रागद्वेषतिमिरोपप्लुतदृष्टेमनोज्ञेतरविषयोपलब्धौ सत्यां कषाया वर्तन्ते प्रादुर्भवन्ति, तन्मूलश्च संसारपादपः प्रादुर्भवतीत्यतः शब्दादिविषयोद्भूत (ताः) कषायाः संसारे संसारविषयं मूलस्थानमेवेति, एतदुक्तं भवति-रागाद्युपहतचेताः परमार्थमजानानोऽतत्स्व (r) श्रेण्यामारोहतो (मु०)। // 158 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy