________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 157 // संयमस्थानं संयमः-सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातरूपः, तस्य पञ्चविधस्याप्यसङ्खयेयानि श्रुतस्कन्धः१ संयमस्थानानि, कियदसङ्ख्यमिति चेत् अतीन्द्रियत्वादर्थस्य न साक्षानिर्देष्टुं शक्यते, आगमानुसारोपमया तूच्यते-इहैकसमयेन / द्वितीयमध्ययन लोकविजयः, सूक्ष्माग्निजीवा असङ्खयेयलोकाकाशप्रदेशप्रमाणा उत्पद्यन्ते, तेभ्योऽग्निकायत्वेन परिणता असत्येयगुणाः, ततोऽपि प्रथमोद्देशकः तत्कायस्थितिरसङ्खयेयगुणाः, ततोऽप्यनुभागबन्धाध्यवसायस्थानान्यसङ्ख्येयगुणानि, संयमस्थानान्यप्येतावन्त्येवेति / नियुक्ति: 184 सामान्यतः, विशेषतस्तूच्यते- सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धीनां प्रत्येकमसङ्घयेयलोकाकाशप्रदेशतुल्यानि संयमस्थानानि, सूक्ष्मसम्परायस्य त्वान्तर्मुहूर्तिकत्वादन्तर्मुहूर्त्तसमयतुल्यान्यसङ्खयेयानि संयमस्थानानि, यथाख्यातस्य त्वेकमेवाजघन्योत्कृष्टं संयमस्थानम्, अथवा संयमश्रेण्यन्तर्गतानि संयमस्थानानि ग्राह्याणि, सा चानेन क्रमेण भवति, तद्यथाअनन्तचारित्रपर्यायनिष्पादितमेकं संयमस्थानम्, असङ्खयेयसंयमस्थाननिर्वर्तितं कण्डकम्, तैश्चासङ्खयेयैर्जनितं षट्स्थानकम्, तदसङ्खयेयात्मिका श्रेणीति / प्रग्रहस्थानं तु प्रकर्षण गृह्यते वचोऽस्येति प्रग्रहः- ग्राह्यवाक्यो नायक इत्यर्थः, स च लौकिको लोकोत्तरश्च,तस्य स्थानं प्रग्रहस्थानम्, लौकिकं तावत्पञ्चविधम्, तद्यथा- राजा युवराजो महत्तरः अमात्यः कुमारश्चेति, लोकोत्तरमपि पञ्चविधम्, तद्यथा- आचार्योपाध्यायप्रवर्तिस्थविरगणावच्छेदकभेदादिति / योधस्थानं पञ्चधा, तद्यथाआलीढप्रत्यालीढवैशाखमण्डलसमपादभेदात् ।अचलस्थानं तु चतुर्द्धा-सादिसपर्यवसानादिभेदात्, तद्यथा-सादिसपर्यवसानं परमाण्वादेर्द्रव्यस्यैकप्रदेशादाववस्थानंजघन्यत एकं समयमुत्कृष्टतश्चासङ्खयेयकालमिति, साद्यपर्यवसानं सिद्धानां भविष्यदद्धारूपम्, अनादिसपर्यवसानमतीताद्धारूपस्य शैलेश्यवस्थान्त्यसमये कार्मणतैजसशरीरभव्यत्वानांचेति, अनाद्यपर्यवसानं धर्माधर्माकाशानामिति / गणनास्थानमेकद्व्यादिकं शीर्षप्रहेलिकापर्यन्तम् ।सन्धानस्थानं द्विधा- द्रव्यतो भावतश्च, पुनरप्ये // 157 //