SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 156 // श्रुतस्कन्धः१ द्वितीयमध्ययन लोकविजयः, प्रथमोद्देशकः नियुक्ति: 184 स्थाननिक्षेपाः मुक्खे सुक्खं अणाबाह॥१॥ विनयफलं शुश्रूषा गुरुशुश्रूषाफलं श्रुतज्ञानम्। ज्ञानस्य फलं विरतिर्विरतिफलं चाश्रवनिरोधः॥२॥ संवरफलं तपोबलमथ तपसो निर्जरा फलं दृष्टम् / तस्मात्क्रियानिवृत्तिः क्रियानिवृत्तेरयोगित्वम् // 3 // योगनिरोधाद् भवसन्ततिक्षयः सन्ततिक्षयान्मोक्षः / तस्मात्कल्याणानां सर्वेषां भाजनं विनयः॥४॥ इत्यादि, संसारस्य त्वादिमूलं विषयकषाया इति // 183 // मूलमुक्तमिदानीं स्थानस्य पञ्चदशधा निक्षेपमाह नि०- णामंठवणादविए खित्तद्धा उद्द उवरई वसही।संजम पग्गह जोहे अयल गणण संधणा भावे॥१८४॥ तत्र द्रव्यस्थानं ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्याणां सचित्ताचित्तमिश्राणां स्थानं-आश्रयः, क्षेत्रस्थानं भरतादि उर्द्धाधस्तिर्यग्लोकादिति, यत्र वा क्षेत्रे स्थानं व्याख्यायते, अद्धा-कालः तत्स्थानं द्विधा-कायस्थितिभवस्थितिभेदात्, तत्र कायस्थितिः पृथिव्यप्तेजोवायूनामसङ्खयेया उत्सर्पिण्यवसर्पिण्यः, वनस्पतेस्तु ता एवानन्ताः, विकलेन्द्रियाणाम(णां)सङ्खयेया वर्षसहस्राः, पञ्चेन्द्रियतिर्यग्मनुजानां सप्ताष्टौ वा भवाः / भवस्थितिस्तु वायूदकवनस्पतिपृथिवीनां त्रिसप्तदशद्वाविंशतिवर्षसहस्त्रात्मिका, तेजसस्त्रीण्यहोरात्राणि, द्वीन्द्रियाणांशङ्खादीनां द्वादश वर्षाणि, त्रीन्द्रियाणां पिपीलिकादीनामेकोनपञ्चाशदहोरात्राणि, चतुरिन्द्रियाणां भ्रमरादीनां षण्मासाः, पञ्चेन्द्रियतिर्यग्मनुष्याणां त्रीणि पल्योपमानि, देवानां नारकाणांच कायस्थितेरभावद्भवस्थितिस्त्रयस्त्रिंशत्सागरोपमाणीति, इयमुत्कृष्टा द्विरूपापि, जघन्या तु सर्वेषामन्तर्मुहर्तात्मिका, नवरं देवनारकयोर्दशवर्षसहस्राणीति, अथवाऽद्धास्थानं-समयावलिकामुहूर्ताहोरात्रपक्षमासवयनसंवत्सरयुगपल्योपमसागरोपमोत्सर्पिण्यवसर्पिणीपुद्गलपरावर्तातीतानागतसर्वाद्धारूपमिति / ऊर्द्धस्थानं तु कायोत्सर्गादिकम्, अस्योपलक्षणत्वानिषण्णाद्यपि गृह्यते / उपरतिः-विरतिः, तत्स्थानं देशे सर्वत्र च श्रावकसाधुविषयम् / वसतिस्थानं यो यत्र ग्रामगृहादौ वसति / 8 // 156 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy