SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ 154 // भवगुणादेवेति / शीलगुणो नाम परैराक्रुश्यमानोऽपि शीलगुणादेव न क्रोधवशो भवति, अथवा शब्दादिके शोभने अशोभने श्रुतस्कन्ध:१ वा स्वभावादेव विदितवेद्यवन्माध्यस्थ्यमवलम्बते। भावगुणो नाम भावा:-औदयिकादयस्तेषां गुणो भावगुणः, सच जीवा द्वितीयमध्ययनं लोकविजयः, जीवविषयः, तत्र जीवविषय औदयिकादिः षोढा, तत्रौदयिकः प्रशस्तोऽप्रशस्तश्च, तीर्थकराहारकशरीरादिः प्रशस्तः, प्रथमोद्देशकः अप्रशस्तस्तु शब्दादिविषयोपभोगहास्यरत्यरतीत्यादिः, औपशमिक उपशमश्रेण्यन्तर्गतायुष्कक्षयानुत्तरविमानप्राप्तिलक्षण नियुक्ति: 181 स्तथा सत्कर्मानुदयलक्षणश्चेति, क्षायिकगुणश्चतु , तद्यथा-क्षीणसप्तकस्य पुनर्मिथ्यात्वागमनं १क्षीणमोहनीयस्यावश्यं लोकविजय गुणमूलानां भाविशेषघातिकर्मक्षयः 2 क्षीणघातिकर्मणोऽनावरणज्ञानदर्शनाविर्भावः३अपगताशेषकर्मणोऽपुनर्भवस्तथाऽऽत्यन्तिकै निक्षेपाः कान्तिकानाबाधपरमानन्दलक्षणसुखावाप्ति 4 श्चेति, क्षायोपशमिकः क्षायोपशमिकदर्शनाद्यवाप्तिरिति, पारिणामिको भव्यत्वादिरिति, सान्निपातिकस्त्वौदयिकादिपञ्चभावसमकालनिष्पादितः, तद्यथा- मनुष्यगत्युदयादौदयिकः सम्पूर्णपञ्चेन्द्रियत्वावाप्तेः क्षायोपशमिको दर्शनसप्तकक्षयात् क्षायिकश्चारित्रमोहनीयोपशमादौपशमिको भव्यत्वात्पारिणामिक इति, उक्तो छ जीवभावगुणः / साम्प्रतमजीवभावगुणः, स चौदयिकपारिणामिकयोरेव सम्भवति, नान्येषाम्, तत्रौदयिकस्तावद् उदये भव औदयिकः, स चाजीवाश्रयोऽनया विवक्षया, यदुत- काश्चित् प्रकृतयः पुद्गलविपाकिन्य एव भवन्ति, काः पुनस्ताः?, उच्यन्ते, औदारिकादीनि शरीराणि पञ्च षट् संस्थानानि त्रीण्यङ्गोपाङ्गानि षट् संहननानि वर्णपञ्चकं गन्धद्वयं पञ्च रसा अष्टौ स्पर्शा अगुरुलघुनाम उपघातनाम पराघातनाम उद्योतनाम आतपनाम निर्माणनाम प्रत्येकनाम साधारणनाम स्थिरनाम अस्थिरनाम शुभनाम अशुभनाम, एताः सर्वा अपि पुद्गलविपाकिन्यः, सत्यपिजीवसम्बन्धित्वे पुद्गलविपाकित्वादासामिति, पारिणामिकोऽजीवगुणस्तु द्वेधाअनादिपारिणामिकः सादिपारिणामिकश्चेति, तत्रानादिपारिणामिको धर्माधर्माकाशानां // 154 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy