SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः१ द्वितीयमध्ययनं लोकविजयः, प्रथमोद्देशकः नियुक्ति: 181 लोकविजय गुणमूलानां निक्षेपाः श्रीआचाराङ्गा द्रव्यस्यावस्थाविशेषः पर्यायः स एव गुणः पर्यायगुणः, गुणपर्याययोर्नयवादान्तरेणाभेदाभ्युपगमात्, स च निर्भजनारूपो, नियुक्ति निश्चिता भजना निर्भजना-निश्चितो भाग इत्यर्थः, तथाहि-स्कन्धद्रव्यं देशप्रदेशेन भिद्यमानं परमाण्वन्तं भेदंददाति, परमाणुश्रीशीला० वृत्तियुतम् सरप्येकगुणकृष्णद्विगुणकृष्णादिना अनन्तशोऽपि भिद्यमानो भेददायीति / गणनागुणो नाम द्विकादिकः, तेन च सुमहतोऽपि श्रुतस्कन्धः१ राशेर्गणनागुणेनेयत्ताऽवधार्यते / करणगुणो नाम कलाकौशलम्, तथाहि- उदकादौ करणपाटवार्थं गात्रोत्क्षेपादिकां क्रियां // 153 // कुर्वन्ति / अभ्यासगुणो नाम भोजनादिविषयः, तद्यथा- तदहर्जातबालकोऽपि भवान्तराभ्यासात् स्तनादिकं मुख एव प्रक्षिपति उपरतरुदितश्च भवति, यदिवाऽभ्यासवशात् सन्तमसेऽपि कवलादेर्मुखविवरप्रेक्षपाद्व्या(पोव्या)कुलितचेतसोऽपि च तुदद्गात्रकण्डूयनमिति / गुणागुणो नाम गुण एव कस्यचिदगुणत्वेन विपरिणमते, यथाऽऽर्जवोपेतस्यर्जुत्वाख्यो गुणो मायाविनः प्रत्यगुणो भवति, उक्तं च शाठ्यं ह्रीमति गण्यते व्रतरुचौ दम्भः सुचौ कैतवं, शूरे निघृणता ऋजौ विमतिता दैन्यं प्रियाभाषिणि / तेजस्विन्यवलिप्तता मुखरता वक्तर्यशक्तिः स्थिरे, तत्को नाम गुणो भवेत् स विदुषां यो दुजनैर्नाङ्कितः?॥१॥ अगुणगुणो नामागुण एव च कस्यचित् गुणत्वेन विपरिणमते, स च वक्रविषयो, यथा गौर्गलिरसञ्जातकिणस्कन्धो गोगणस्य मध्ये सुखेनैवास्ते, तथा च गुणानामेव दौर्जन्याद्धरि धुर्यो नियुज्यते। असञ्जातकिणस्कन्धः, सुखं जीवति गौलिः॥१॥ भवगुणो नाम भवन्तिउत्पद्यन्ते तेषु तेषु स्थानेष्विति नारकादिर्भवः, तत्र तस्य वा गुणो भवगुणः, सच जीवविषयः, तद्यथा- नारकास्तीव्रतरवेदनासहिष्णवस्तिलशश्छिन्नसन्धानिनोऽवधिमन्तश्च भवगुणादेव भवन्ति, तिर्यञ्चश्च सदसद्विवेकविकला अपि सन्तो गगनगमनलब्धिमन्तो, गवादीनां च तृणादिकमप्यशनं शुभानुभावेनापद्यते, मनुजानां चाशेषकर्मक्षयो, देवानां च सर्वशुभानुभावो ®ऽर्जवे (प्र०)। (c) दौरात्म्यात् (प्र०)। (r) नारकादित्वेनेति भवः / // 153 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy