SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 152 // श्रुतस्कन्धः१ द्वितीयमध्ययनं लोकविजयः, प्रथमोद्देशकः नियुक्ति: 181 लोकविजय गुणमूलानां निक्षेपाः किं?-लोकं चतुर्दशरज्वात्मकमाकाशखण्डम्, कुतो?, बहुप्रदेशगुणत्वात्, तथाहि- उत्पन्नदिव्यज्ञान आयुषोऽल्पत्वमवधार्य वेदनीयस्य च प्राचुर्यं दण्डादिक्रमेण लोकप्रमाणत्वादात्मप्रदेशानां लोकमापूरयति, तदुक्तं दंडकवाडे मंथंतरे यत्ति गाथार्थः।। १८०॥गतो द्रव्यगुणः, क्षेत्रादिकमाह नि०- देवकुरु सुसमसुसमा सिद्धी निब्भय दुगादिया चेव / कल भोअणुज्जु वंके जीवमजीवे य भावंमि // 181 // क्षेत्रगुणे देवकुर्वादिः, कालगुणे सुषमसुषमादिः, फलगुणे सिद्धिः, पर्यवगुणे निर्भजना, गणनागुणे द्विकादि, करणगुणे कलाकौशल्यम्, अभ्यासगुणे भोजनादि, गुणागुणे ऋजुता, अगुणगुणे वक्रता, भवगुणशीलगुणयोर्भावगुणार्थमुपात्तेन जीवग्रहणेन गतार्थत्वाद्गाथायां पृथगनुपादानम्, भवगुणो जीवस्य नारकादिर्भवः, शीलगुणो जीव एव क्षान्त्याधुपेतो, भावगुणो जीवाजीवयोः, इति संयोज्यैकैकं व्याख्यायते-तत्र देवकुरूत्तरकुरुहरिवर्षरम्यकहैमवतहैरण्यवतषट्पञ्चाशदन्तरद्वीपकाकर्मभूमीनामयं गुणो, यदुत तत्रत्यमनुजा देवकुमारोपमाः सदावस्थितयौवना निरुपक्रमायुषो मनोजशब्दादिविषयोपभोगिनः स्वभावमास्वार्जवप्रकृतिभद्रकगुणासन्नदेवलोकगतयश्च भवन्ति / कालगुणोऽपि भरतैरावतयोस्तिसृष्वप्येकान्तसुषमादिषु समासुस एव सदावस्थितयौवनादिरिति / फलमेव गुणः फलगुणः, फलंच क्रियाया भवति, तस्याश्च क्रियायाः सम्यग्दर्शनज्ञानचारित्ररहिताया ऐहिकामुष्मिकार्थं प्रवृत्ताया अनात्यन्तिकोऽनैकान्तिको भवन्फलगुणोऽप्यगुण एव भवति, सम्यग्दर्शनज्ञानचारित्रक्रियायास्त्वैकान्तिकात्यन्तिकानाबाधसुखाख्यसिद्धिफलगुणोऽवाप्यते, एतदुक्तं भवति- सम्यग्दर्शनादिकैव क्रिया सिद्धिफलगुणेन फलवती, अपरा तु सांसारिकसुखफलाभास एव, फलाध्यारोपान्निष्फलेत्यर्थः / पर्यायगुणो नाम (r) दण्डः कपाटो मन्था अन्तराणि च /
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy