________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 / / 151 // श्रुतस्कन्धः१ द्वितीयमध्ययनं लोकविजयः, प्रथमोद्देशकः नियुक्ति: 180 लोकविजय गुणमूलानां निक्षेपाः र्भेदाभेदव्यवस्थानेनैवात्मभावसद्भावात्, आह हि दव्वं पज्जवविजुयं दव्वविउत्ता य पज्जवा णत्थि। उप्पायट्ठिइभंगा हंदि दवियलक्खणं एयं // 1 // नयास्तव स्यात्पदलाञ्छिता इमे, रसोपविद्धा इव लोहधातवः / भवन्त्यभिप्रेतफला यतस्ततो, भवन्तमार्याः प्रणता हितैषिणः // 2 // इत्यादि स्वयूथ्यैरत्र बहु विजृम्भितमित्यलं विस्तरेण / एनमेव नियुक्तिकारः समस्तद्रव्यप्रधाने जीवद्रव्ये गुणमभेदेन व्यवस्थितमाह नि०-संकुचियवियसियत्तं एसो जीवस्स होइ जीवगुणो। पूरेइ हंदि लोगं बहुप्पएसत्तणगुणेणं // 18 // जीवो हि सयोगिवीर्यसद्व्यतया प्रदेशसंहारविसर्गाभ्यामाधारवशात् प्रदीपवत् सङ्कचति विकसति च, एष जीवस्यात्मभूतो गुणो, भेदं विनाऽपि षष्ठ्युपलब्धेः, तद्यथा-राहोः शिरः शिलापुत्रकस्य शरीरमिति, तद्भव एव वा सप्तसमुद्धातवशात् सङ्कचति विकसति च, सम्यक्-समन्ततः उत्- प्राबल्येन हननं- इतश्चेतश्चात्मप्रदेशानांप्रक्षेपणंसमुद्धातः,सच कषायवेदनामारणान्तिकवैक्रियतैजसाहारककेवलिसमुद्धातभेदात् सप्तधा, तत्र कषायसमुद्धातोऽनन्तानुबन्धिक्रोधाद्युपहतचेतस आत्मप्रदेशानामितश्वेतश्च प्रक्षेपः, इत्येवंतीव्रतरवेदनोपहतस्यापि वेदनासमुद्धातः, मारणान्तिकसमुद्धातो हि मुमूर्षारसुमत आदित्सितोत्पत्तिप्रदेशे आलोकान्तादात्मप्रदेशानां भूयो भूयः प्रक्षेपसंहाराविति, वैक्रियसमुद्धातो वैक्रियलब्धिमतो वैक्रियोत्पादनाय बहिरात्मप्रदेशप्रक्षेपः, तैजससमुद्धातस्तैजसशरीरनिमित्ततेजोलेश्यालब्धिमतस्तेजोलेश्याप्रक्षेपावसरे इति, आहारकसमुद्धातश्चतुर्दशपूर्वविद आहारकलब्धिमतः क्वचित्सन्देहापगमनाय तीर्थङ्करान्तिकगमनार्थमाहारकशरीरंसमुपादातुंबहिरात्मप्रदेशप्रक्षेपः, केवलिसमुद्घातं तु समस्तलोकव्यापितयाऽन्तर्नीतान्यसमुद्धातं नियुक्तिकारः स्वत एवाचष्टे- पूरयति व्याप्नोति हन्दीत्युपप्रदर्शने, (r) द्रव्यं पर्यायवियुतं द्रव्यवियुताश्च पर्यवा न सन्ति / उत्पादस्थितिभङ्गा हन्दि द्रव्यलक्षणमेतत्॥ 1 // एतदेव नियुक्ति.....गुणभेदेन० (मु०)। // 151 //