SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 150 // भेदाढ़ेदः, तथाहि- द्रव्यलक्षणं-गुणपर्यायवद्रव्यम्, विधानमपि-धर्माधर्माकाशजीवपुद्गलादिकमिति, गुणलक्षणं द्रव्या- श्रुतस्कन्धः१ श्रयिणः सहवर्त्तिनो निर्गुणा गुणा इति, विधानमपि-ज्ञानेच्छाद्वेषरूपरसगन्धस्पर्शादयः स्वगतभेदभिन्ना इति, नैष दोषो, द्वितीयमध्ययनं लोकविजयः, यतो द्रव्ये सचित्ताचित्तमिश्रभेदभिन्ने स गुणस्तादात्म्येन स्थितः, तत्राचित्तद्रव्यं द्विधा- अरूपि रूपि च, तत्रारूपिद्रव्यं त्रिधा प्रथमोद्देशकः धर्माधर्माकाशभेदभिन्नम्, तच्च गतिस्थित्यवगाहदानलक्षणम्, गुणोऽप्यस्यामूर्त्तत्वागुरुलघुपर्यायलक्षणः, तत्रामूर्त्तत्वं नियुक्तिः 177-179 त्रयस्यापि स्वं रूपंन भेदेन व्यवस्थितम्, अगुरुलघुपर्यायोऽपि, तत्पर्यायत्वादेव, मृदो मृत्पिण्डस्थासकोशकुशूलपर्यायवत्, लोकविजय रूपिद्रव्यमपिस्कन्धतद्देशप्रदेशपरमाणुभेदम्, तस्य च रूपादयोगुणा अभेदेन व्यवस्थिताः, भेदेनानुपलब्धेः, संयोगविभागा-गुणमूलानां निक्षेपाः भावात्, स्वात्मवत् / तथा सचित्तमप्युपयोगलक्षणलक्षितं जीवद्रव्यम्, न च तस्माद्भिन्ना ज्ञानादयो गुणाः, तद्भेदे जीवस्याचेतनत्वप्रसङ्गात्, तत्सम्बन्धाद्भविष्यतीति चेत्, अनुपासितगुरोरिदं वचो, यतो न हि स्वतोऽसती शक्तिः कर्तुमन्येन * पार्यते, न ह्यन्धः प्रदीपशतसम्बन्धेऽपि रूपावलोकनायालमिति / अनयैव दिशा मिश्रद्रव्येऽप्येकत्वसंयोजना स्वबुद्ध्या कार्यति गाथार्थः // 179 // तदेवं द्रव्यगुणयोरेकान्तेनैकत्वे प्रतिपादिते सत्याह शिष्यः- तत्किमिदानीमभेदोऽस्तु?, नैतदप्यस्ति, यतः सर्वथाऽभेदेऽभ्युपगम्यमाने सत्येकेनैवेन्द्रियेण गुणान्तरस्याप्युपलब्धेरपरेन्द्रियवैफल्यं स्यात्, तथाहि- चूतफलरूपादौ चक्षुराद्युपलभ्यमाने रूपाद्यात्मभूतावयविद्रव्याव्यतिरिक्तरसादेरप्युपलब्धिः स्याद्, रूपादिस्वरूपवद्, एवं ह्यभेदः स्याद्यदि रूपादौ समुपलभ्यमानेऽन्येऽपिसमुपलभ्येरन्, अन्यथा विरुद्धधर्माध्यासाद्भिद्येरन् घटपटवदिति // तदेवं भेदाभेदोपपत्ति / / 150 // भिर्व्याकुलितमतिः शिष्य: पृच्छति- उभयथाऽपि दोषापत्तिदर्शनात्कथं गृह्णीमः?, आचार्य आह- अत एव भेदाभेदोऽस्तु, तत्राभेदपक्षे द्रव्यं गुणो भेदपक्षे तु भावो गुण इति, तथाहि-गुणगुणिनो: पर्यायपर्यायिणोः सामान्यविशेषयोरवयवावयविनो
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy