SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 148 // श्रुतस्कन्धः१ द्वितीयमध्ययन लोकविजयः, प्रथमोद्देशकः नियुक्तिः 174-176 लोकविजय गुणमूलानां निक्षेपाः बभाषे, गणधरैश्च महामतिभिरचिन्त्यशक्त्युपेतैगौतमादिभिः प्रवचनार्थमशेषासुमदुपकाराय स एवाचाराङ्गतया ददृभे, आवश्यकान्तर्भूतश्चतुर्विंशतिस्तवस्त्वारातीयकालभाविना भद्रबाहुस्वामिनाऽकारि, ततश्चायुक्तः पूर्वकालभाविन्याचाराने व्याख्यायमाने पश्चात्कालभाविना चतुर्विंशतिस्तवेनातिदेश इति कश्चित् सुकुमारमतिः, अत्राह- नैष दोषो, यतो भद्रबाहुस्वामिनाऽयमतिदेशोऽभ्यधायि, सच पूर्वमावश्यकनियुक्तिं विधाय पश्चादाचाराङ्गनियुक्तिं चक्रे, तथा चोक्तं आवस्सयस्स दसकालियस्स तह उत्तरज्झमायारेत्ति सूक्तम्। विजयस्य तु निक्षेपं नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यादिकमाह-दव्वमित्यादिना, द्रव्यविजयो व्यतिरिक्तो द्रव्येण द्रव्यात् द्रव्ये वा विजयः कटुतिक्तकषायादिना श्लेष्मादेर्नृपतिमल्लादेर्वा, क्षेत्रविजयः षट्खण्डभरतादेर्यस्मिन् वा क्षेत्रे विजयः प्ररूप्यते, कालविजय इति कालेन विजयो यथा षष्टिभिर्वर्षसहस्रर्भरतेन जितं भरतम्, कालस्य प्राधान्यात्, भृतककर्मणि वा मासोऽनेन जित इति, यस्मिन् वा काले विजयो व्याख्यायत इति, भावविजय औदयिकादेर्भावस्य भावान्तरेण औपशमिकादिना विजयः। तदेवं लोकविजययोः स्वरूपमुपदर्य प्रकृतोपयोग्याह- भवे त्यादि, अत्र हि भवलोकग्रहणेन भावलोक एवाभिहितः, छन्दोभङ्गभीत्या ह्रस्व एवोपादायि, तथा चावाचि- भावे कसायलोगो अहिगारो तस्स विजएणं ति, तस्य औदयिकभावकषायलोकस्य औपशमिकादिभावलोकेन विजयो यत एतदत्र प्रकृतम्, इदमत्र ॐ हृदयं-अष्टविधलोकषड्विधविजययोः प्राग्व्यावर्णितस्वरूपयोर्भावलोकभावविजयाभ्यामत्रोपयोग इति, यथा चाष्टप्रकारेण कर्मणा लोकः-प्राणिगणो बध्यते, बन्धस्योपलक्षणत्वाद्यथा च मुच्यत इत्येतदप्यत्राध्ययने प्रकृतमिति गाथार्थः // 176 तेनैव भावलोकविजयेन किं फलमित्याह®स्वामिनैवाऽयम० (प्र०)। ॐ आवश्यकस्य दशकालिकस्य तथोत्तराध्ययनेष्वाचारे / // 148 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy