SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 146 // गुणमूलानां कार्य इति शेषः, यतो भोगिनामपायान् वक्ष्यति, सूत्रं च- थीहिं लोए पवहिए 4, पञ्चमे तु लोगणिस्साएत्ति त्यक्तस्वजन- श्रुतस्कन्धः१ धनमानभोगेनापि साधुना संयमदेहप्रतिपालनाय स्वार्थारम्भप्रवृत्तलोकनिश्रया विहर्त्तव्यमिति शेषः, तथा च सूत्रं-समुट्ठिए द्वितीयमध्ययनं लोकविजयः, अणगारे इत्यादि जाव परिव्वए 5, षष्ठोद्देशके तु- लोए अममिज्जया चेव लोकनिश्रयाऽपि विहरता साधुना तस्मिन् लोके प्रथमोद्देशकः पूर्वापरसंस्तुतेऽसंस्तुते च न ममत्वं कार्यम्, पङ्कजवत्तदाधारस्वभावानभिष्वङ्गिणा भाव्यमिति, तथा च सूत्रं- जे ममाईयमई 2 नियुक्ति: 173 लोकविजय जहाति से जहाति ममातियं गाथातात्पर्यार्थः // 172 // नामनिष्पन्ने तु निक्षपे लोकविजय इति द्विपदं नाम, तत्र लोकविजययोनिक्षेपः कार्यः, सूत्रालापकनिष्पन्ने च निक्षेपे यानि निक्षेपार्हाणि सूत्रपदानि तेषां च निक्षेपःकार्यः, सूत्रपदोपन्यस्तमूलशब्दस्य निक्षेपाः च कषायाभिधायकत्वात् कषायाश्च निक्षेप्तव्याः, तदेवं नामनिष्पन्नं भविष्यत्सूत्रालापकनिष्पन्ननिक्षेपोपक्षिप्तं सामर्थ्यायात च यन्निक्षेप्तव्यं तनियुक्तिकारो गाथया सम्पिण्ड्याऽऽचष्टे नि०- लोगस्स य विजयस्स य गुणस्स मूलस्स तह य ठाणस्स / निक्खेवो कायव्वोजमूलागंच संसारो॥१७३ / / कण्ठ्या , केवलं जंमूलागं च संसारो इति यन्मूलकः संसारस्तस्य च निक्षेपः कार्यः, तच्च मूलं कषायाः, यतः नारकतिर्यग्नरामरगतिस्कन्धस्य गर्भनिषेककललार्बुदमांसपेश्यादिजन्मजरामरणशाखस्य दारिद्याद्यनेकव्यसनोपनिपातपत्रगहनस्य प्रियविप्रयोगाप्रियसम्प्रयोगार्थनाशानेकव्याधिशतपुष्पोपचितस्य शारीरमानसोपचिततीव्रतरदुःखोपनिपातफलस्य संसारतरोर्मूलं- आद्यं कारणं कषायाः-कषः-संसारस्तस्याऽऽया इति कृत्वा // 173 // तदेवं यान्यत्र नामनिष्पन्ने यानि च सूत्रालापकनिष्पन्ने निक्षेप्तव्यपदानि सम्भवन्ति तानि नियुक्तिकारः सुहृद्भूत्वा विवेकेनाऽऽचष्टे // 146 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy