________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१] पृथिवीकायादि श्रद्दधानस्य सम्यक्तद्रक्षापरिणामवतः सर्वोपाधिशुद्धस्य तद्योग्यतयाऽऽरोपितपञ्चमहाव्रतभारस्य साधोर्यथा श्रुतस्कन्धः 1 द्वितीयमध्ययन रागादिकषायलोकस्य शब्दादिविषयलोकस्य वा विजयो भवति तथाऽनेनाध्ययनेन प्रतिपाद्यते। तथा च नियुक्ति लोकविजयः, कारेणाध्ययनार्थाधिकारः शस्त्रपरिज्ञायां प्राग्निरदेशि लोओ जह बज्झइ जह य तं विजहियव्वंति, इत्यनेन सम्बन्धेनायातस्या- प्रथमोद्देशकः स्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति / तत्र सूत्रार्थकथनमनुयोगः, तस्य द्वाराणि उपाया व्याख्याङ्गानीत्यर्थः, तानि नियुक्ति: 172 अर्थाधिकारः चोपक्रमादीनि, तत्रोपक्रमो द्वेधा- शास्त्रानुगतः शास्त्रीयः लोकानुगतो लौकिक इति, निक्षेपस्त्रिधा-ओघनामसूत्रालापकनिष्पन्नभेदात्, अनुगमो द्वेधा-सूत्रानुगमो नियुक्त्यनुगमश्च, नया-नैगमादयः / तत्र शास्त्रीयोपक्रमान्तर्गतोऽर्थाधिकारो द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च, तत्राध्ययनार्थाधिकारोऽध्ययनसम्बन्धे शस्त्रपरिज्ञायां प्रागेव निरदेशि, उद्देशााधिकारं तु स्वयमेव नियुक्तिकारः प्रचिकटयिषुराह नि०-सयणे य अदढत्तं बीयगंमि माणो अअत्थसारो / भोगेसु लोगनिस्साइ लोगे अममिज्जया चेव॥१७२॥ तत्र प्रथमोद्देशकार्थाधिकारः 'स्वजने' मातापित्रादिके अभिष्वङ्गोऽधिगतसूत्रार्थेन न कार्य इत्यध्याहारः, तथा च सूत्रं-0 माया मे पिया मे इत्यादि 1, अदढत्तं बीयगंमि त्ति द्वितीय उद्देशके अदृढत्वं संयमे न कार्यमिति शेषः, विषयकषायादौ चादृढत्वं कार्यमिति, वक्ष्यति च अरई आउट्टे मेहावी 2, तृतीय उद्देशके माणो अ अत्थसारो अत्ति जात्याधुपेतेन साधुना कर्मवशाद्विचित्रतामवगम्य सर्वमदस्थानानां मानो न कार्यः, आह च के गोआवादी? के माणावादी त्यादि, अर्थसारस्य च निस्सारता वर्ण्यते, तथा च- तिविहेण जाऽवि से तत्थ मत्ता अप्पा वा बहुगा वे त्यादि 3, चतुर्थे तु भोगेसु त्ति भोगेष्वभिष्वङ्गो न 7 सम्बन्धः शेषः (प्र०)। // 14 //