________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 144 // श्रुतस्कन्धः१] द्वितीयमध्ययनं लोकविजयः, प्रथमोद्देशकः मङ्गलम् ॥अथ द्वितीयमध्ययनं लोकविजयाख्यम्॥ ॥प्रथमोद्देशकः॥ नमः श्रीवर्द्धमानाय, वर्द्धमानाय पर्ययैः / उक्ताचारप्रपञ्चाय, निष्प्रपञ्चाय तायिने // 1 // शस्त्रपरिज्ञाविवरणमतिगहनमितीव किल वृताः पूज्याः। श्रीगन्धहस्तिमिश्राविवृणोमि ततोऽहमवशिष्टम् // 2 // उक्तं प्रथमाध्ययनम्, साम्प्रतं द्वितीयमारभ्यते, अस्य चायमभिसम्बन्धः-इह हि मिथ्यात्वोपशमक्षयक्षोपशमान्यतरावाप्तसम्यग्दर्शनज्ञानकार्यस्यात्यन्तिकैकान्तानाबाधपरमानन्दस्वतत्त्वसुखानावरणज्ञानदर्शनलक्षणलक्षितमोक्षकारणस्याश्रवनिरोधनिर्जरारूपस्य मूलोत्तरगुणभेदभिन्नस्य चारित्रस्यापराशेषव्रतवृतिकल्पनिष्पादितनिष्प्रत्यूहसकलप्राणिगणसङ्घट्टनपरितापनापद्रावणनिवृत्तिरूपस्य संसिद्धये मरणाभावप्रसङ्गादभूतगुणात्मधर्मज्ञानोपलब्धेर्बार्हस्पत्यमतनिरासेन सामान्यतो जीवास्तित्वं प्रतिपाद्य विशेषतश्च बौद्धादिमतनिरासेनैकेन्द्रियावनिजलानलपवनवनस्पतिभेदांश्च जीवान् प्रकटय्य यथाक्रमं समानजातीयाश्मलतायुद्भेददर्शनादर्शोमांसाङ्करवत् अविकृतभूमिखननोपलब्धेर्मण्डूकवत् विशिष्टाहारोपचयापचयशरीराभिवृद्धिक्षयान्वयव्यतिरेकगतेरर्भकशरीरवत् अपरप्रेरिताप्रतिहतानियततिरश्चीनगमनाद्वाश्वादिवत् सालक्तकनूपुरालङ्कारकामिनीचरणताडनविकाराधिगतेः कामुकवदित्यादिभिः प्रयोगैस्तथोच्चैः शिर उद्घाट्य सूक्ष्मबादरद्वित्रिचतुष्पञ्चेन्द्रियसंज्ञीतरपर्याप्तकापर्याप्तकभेदांश्च प्रदर्श्य शस्त्रंच स्वकायपरकायभेदभिन्नं तद्वधे बन्धं विरतिं च प्रतिपाद्य पुनरपि तदेव चारित्रं यथा सम्पूर्णभावमनुभवति तथाऽनेनाध्ययनेनोपदिश्यते, तथाहि-अधिगतशस्त्रपरिज्ञासूत्रार्थस्य तत्प्रतिपादितैकेन्द्रियO०वनिजीवनानल (प्र०)। // 144 //