SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्ति श्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 143 // श्रुतस्कन्धः१ प्रथममध्ययन शस्त्रपरिज्ञा, सप्तमोद्देशक: सूत्रम् 62 साधुत्वम् रामि पश्चाद्वन्दनकं दत्त्वोत्थितोऽभिधत्ते अवनताङ्गयष्टिः- संदिशत किं भणामी ति?, सूरिः प्रत्याह- वन्दित्वाऽभिधत्स्वे त्येवमुक्तोऽभिवन्द्योत्थितो भणति- युष्माभिर्मम महाव्रतान्यारोपितानि इच्छाम्यनुशिष्टि मिति, आचार्योऽपि प्रणिगदतिनिस्तारकपारगो भवाचार्यगुणैर्वर्द्धस्व वचनविरतिसमनन्तरं च सुरभिवासचूर्णमुष्टिं शिष्यस्य शिरसि किरति, पश्चाद्वन्दनकं दत्त्वा प्रदक्षिणीकरोत्याचार्य नमस्कारमावर्तयन्, पुनरपि वन्दते, तथैव च करोति सकलक्रियानुष्ठानम्, एवं त्रिप्रदक्षिणीकृत्य विरमति शिष्यः, शेषाः साधवश्चास्य मूर्ध्नि युगपद्वासमुष्टिं विमुञ्चन्ति सुरभिपरिमलां यतिजनसुलभकेसराणि वा, पश्चात्कारितकायोत्सर्गः सूरिरभिदधाति- गणस्तव कोटिकः स्थानीयं कुलं वैराख्या शाखा अमुकाभिधान आचार्य उपाध्यायश्च, साध्व्याः प्रवर्तिनी तृतीयोद्देष्टव्या, यथाऽऽसन्नंचोपस्थाप्यमाना रत्नाधिका भवन्ति, पश्चादाचाम्लं निर्विकृतिकं वा स्वगच्छसन्ततिसमायातमाचरन्तीति / एवमेतदध्ययनमादिमध्यान्तकल्याणकलापयोगि भव्यजनतामनःसमाधानाधायि प्रियविप्रयोगादिदुःखावर्त्तबहुलकषायझषादिकुलाकुलविषमसंसृतिसरित्तारणसमर्थममलदयैकरसमसकृदभ्यसितव्यं मुमुक्षुणेति // आचार्यश्रीशीलाकविरचिता शस्त्रपरिज्ञाध्ययनटीकासमातेति ॥(ग्रन्थाग्रं श्लोकाः 2221) // इति प्रथमाऽध्ययने सप्तमोद्देशकः // 1-7 // // इति श्रीश्रुतकेवलीभद्रबाहुस्वामिसन्दृब्धनियुक्तियुतं श्रीशीलाङ्काचार्यविहितविवरणसमन्वितं श्रीआचाराङ्गप्रथमश्रुतस्कन्धवृत्तौ प्रथममध्ययनं शस्त्रपरिज्ञाख्यं समाप्तम् / / // 143 - षष्ठानि आत्महितार्थायोपसंपद्य विरहामि /
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy