SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 141 // श्रुतस्कन्धः१ प्रथममध्ययनं शस्त्रपरिज्ञा, सप्तमोद्देशक: सूत्रम् 62 साधुत्वम् नैव स्वयं षड्जीवनिकायशस्त्रं स्वकायपरकायादिभेदं समारभेत नैवान्यैः समारम्भयेत् न चान्यान् समारभमाणान् समनुजानीयात्, एवं यस्यैते सुपरीक्ष्यकारिणः षड्जीवनिकायशस्त्रसमारम्भास्तद्विषयाः पापकर्मविशेषाः परिज्ञाता ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च, स एव मुनिः प्रत्याख्यातकर्मत्वात्-प्रत्याख्याताशेषपापागमत्वात्, तदन्यैवंविधपुरुषवदिति / इतिशब्दोऽध्ययनपरिसमाप्तिप्रदर्शनाय, ब्रवीमीति सुधर्मस्वाम्याहस्वमनीषिकाव्यावृत्तये, भगवतोऽपनीतघनघातिकर्मचतुष्टयस्य समासादिताशेषपदार्थाविर्भावकदिव्यज्ञानस्य प्रणताशेषगीर्वाणाधिपतेश्चतुस्त्रिंशदतिशयसमन्वितस्य श्रीवर्द्धमानस्वामिन उपदेशात्सर्वमेतदाख्यातं यदतिक्रान्तं मयेति / उक्तः सूत्रानुगमो निक्षेपश्च ससूत्रस्पर्शनियुक्तिः / सम्प्रति नया नैगमादयः, ते चान्यत्र सुविचारिताः, सङ्केपतस्तु सर्वेऽपि एते द्वेधा भवन्ति, ज्ञाननयाश्चरणनयाश्च, तत्र ज्ञाननया ज्ञानमेव प्रधानं मोक्षसाधनमित्यध्यवस्यन्ति, हिताहितप्राप्तिपरिहारकारित्वात् ज्ञानस्य, तत्पूर्वक सकलदुःखप्रहाणाच्च ज्ञानमेव न तु क्रिया, चरणनयास्तु चरणस्य प्राधान्यमभिदधति, अन्वयव्यतिरेकसमधिगम्यत्वात्सकलपदार्थानाम्, तथाहि-सत्यपि ज्ञाने सकलवस्तुग्राहिणि समुल्लसिते न चरणमन्तरेण भवधारणीयकर्मोच्छेदः, तदनुच्छेदाच्च मोक्षालाभः, तस्मान्न ज्ञानं प्रधानम्, चरणे पुनःसति सर्वमूलोत्तरगुणाख्ये घातिकर्मोच्छेदः, तदुच्छेदात् केवलावबोधप्राप्तिः, ततश्च यथाख्यातचारित्रवह्निज्वालाकलापप्रतापितसकलकर्मकन्दोच्छेदः, तदुच्छेदादव्याबाधसुखलक्षणमोक्षावाप्तिरिति, तस्माच्चरणं प्रधानमित्यध्यवस्यामः / अत्रोच्यते, उभयमप्येतन्मिथ्यादर्शनम्, यत उक्तं हयं नाणं कियाहीणं, हया अन्नाणओ किया। पासंतो पंगुलो दलो, धावमाणो य अंधवो॥१॥ तदेवं सर्वेऽपि नयाः परस्परनिरपेक्षा मिथ्यात्वरूपतया न सम्यग्भावमनुभवन्ति, समुदितास्तु यथावस्थितार्थप्रतिपादनेन सम्यक्त्वं हतं ज्ञानं क्रियाहीनं हताऽज्ञानतः क्रिया। पश्यन् पङ्गुर्दग्धो धावंश्चान्धः // 1 // // 141 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy