SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 140 // श्रुतस्कन्धः१ प्रथममध्ययन शस्त्रपरिज्ञा, सप्तमोद्देशकः सूत्रम् 62 साधुत्वम् छज्जीवनिकायसत्थसमारंभा परिणाया भवंति से हु मुणी परिण्णायकम्मे / / सूत्रम् 62 // त्तिबेमि // इति शस्त्रपरिज्ञाध्ययने सप्तमोद्देशकः॥१-७॥ इति प्रथममध्ययनम् / / से इति पृथिव्युद्देशकाद्यभिहितनिवृत्तिगुणभाषड्जीवनिकायहनननिवृत्तोवसुमान् वसूनि द्रव्यभावभेदाविधा- द्रव्यवसूनि-3 मरकतेन्द्रनीलवज्रादीनि भाववसूनि- सम्यक्त्वादीनि तानि यस्य यस्मिन्वा सन्ति स वसुमान् द्रव्यवानित्यर्थः, इह च भाववसुभिर्वसुमत्त्वमङ्गीक्रियते, प्रज्ञायन्ते यैस्तानि प्रज्ञानानि- यथावस्थितविषयग्राहीणि ज्ञानानि सर्वाणि समन्वागतानि प्रज्ञानानि यस्यात्मनः स सर्वसमन्वागतप्रज्ञानः-सर्वावबोधविशेषानुगतः सर्वेन्द्रियज्ञानैः पटुभिर्यथावस्थितविषयग्राहिभिरविपरीतैरनुगत इतियावत्, तेन सर्वसमन्वागतप्रज्ञानेनात्मना, अथवा सर्वेषु द्रव्यपर्यायेषु सम्यगनुगतं प्रज्ञानं यस्यात्मनः स. सर्वसमन्वागतप्रज्ञान आत्मा, भगवद्वचनप्रामाण्यादेवमेतत् द्रव्यपर्यायजातं नान्यथेति सामान्यविशेषपरिच्छेदान्निश्चिताशेषज्ञेयप्रपञ्चस्वरूपः सर्वसमन्वागतप्रज्ञान आत्मेत्युच्यते, अथवा-शुभाशुभफलसकलकलापपरिज्ञानान्नरकतिर्यक्मरामरमोक्षसुखस्वरूपपरिज्ञानाच्चापरितुष्यन्ननैकान्तिकादिगुणयुक्ते संसारसुखे मोक्षानुष्ठानमाविष्कुर्वन् सर्वसमन्वागतप्रज्ञान आत्माऽभिधीयते, तेनैवंविधेनात्मना अकरणीयं अकर्त्तव्यमिहपरलोकविरुद्धत्वादकार्यमिति मत्वा नान्वेषयेत्- न तदुपादानाय यत्न कुर्यादित्यर्थः, किं पुनः तदकरणीयं नान्वेषणीयमिति?, उच्यते, पापं कर्म अधःपतनकारित्वात्पापं क्रियत इति कर्म, तच्चाष्टादशविधं प्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहक्रोधमानमायालोभप्रेमद्वेषकलहाभ्याख्यानपैशून्यपरपरिवादरत्यरतिमायामृषामिथ्यादर्शनशल्याख्यमिति, एवमेतत् पापमष्टादशभेदं नान्वेषयेत्-न कुर्यात् स्वयंन चान्यं कारयेत् न कुर्वाणमन्यमनुमोदेत / एतदेवाह- तं परिण्णाय मेहावी त्यादि 'तत्' पापमष्टादशप्रकारं परिः-समन्तात् ज्ञात्वा मेधावी मर्यादावान् // 140 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy