________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 139 // श्रुतस्कन्धः 1 प्रथममध्ययनं शस्त्रपरिज्ञा, सप्तमोद्देशकः सूत्रम् 62 साधुत्वम् पञ्चप्रकाराचारे 'न रमन्ते' न धृतिं कुर्वन्ति, तदधृत्या च पृथिव्याद्यारम्भिणः, तान् कर्मभिरुपादीयमानान् जानीहि, के पुनराचारे न रमन्ते?, शाक्यदिगम्बरपार्श्वस्थादयः। किमिति?, यत आह- आरंभमाणा विणयं वयंति आरम्भमाणा अपि पृथिव्यादीन् जीवान् विनयं-संयममेव भाषन्ते, कर्माष्टकविनयनाद्विनयः-संयमः,शाक्यादयो हि वयमपि विनयव्यवस्थिता इत्येवं भाषन्ते, न च पृथिव्यादिजीवाभ्युपगमं कुर्वन्ति, तदभ्युपगमेवा तदाश्रितारम्भित्वात् ज्ञानाद्याचारविकलत्वेन नष्टशीला इति / किं पुनः कारणं?, येनैवं ते दुष्टशीला अपि विनयव्यवस्थितमात्मानं भाषन्ते इत्यत आह-छन्दोवणीया अज्झोववण्णा छन्दः-स्वाभिप्रायः इच्छामात्रमनालोचितपूर्वापरं विषयाभिलाषोवा, तेन छन्दसा उपनीताः-प्रापिता आरम्भमार्गमविनीता अपि विनयं भाषन्ते, अधिकमत्यर्थमुपपन्ना तच्चित्तास्तदात्मका अध्युपपन्नाः-विषयपरिभोगायत्तजीविता इत्यर्थः, य एवं विषयाशाकर्षितचेतसस्ते किं कुर्युरित्याह-आरंभसत्ता पकरंति संगं आरम्भणमारम्भः-सावद्यानुष्ठानं तस्मिन् सक्ताः-तत्पराः प्रकर्षेण कुर्वन्ति, सज्यन्ते येन संसारे जीवाः स सङ्गोऽष्टविधं कर्म विषयसङ्गो वा तं सङ्गं प्रकुर्वन्ति, सङ्गाच्च पुनरपि संसारः, आजवंजवीभावरूपः, एवंप्रकारमपायमवाप्नोति षड्जीवनिकायघातकारीति ॥६१॥अथ यो निवृत्तस्तदारम्भात्स किंविशिष्टो भवतीत्यत आह सेवसुमंसव्वसमण्णागयपण्णाणेणं अप्पाणेणं अकरणिजंपावंकमणोअण्णेसिं,तं परिणाय मेहावीणेवसयंछन्जीवनिकायसत्थं __समारंभेजा णेवऽण्णेहिं छज्जीवनिकायसत्थं समारंभावेज्जा णेवऽण्णे छज्जीवनिकायसत्थं समारंभंते समणुजाणेजा, जस्सेते (c) छन्देनोपनीताः (प्र०) अभिप्रायवशौ छन्दौ' इत्यमरोक्ते : 'छन्दो वशेऽभिप्राये च' इति सकारान्तेऽनेकार्थोक्ते यमसाधुः। ॐ इतः प्राक् पुनः पुनस्तत्रैवोत्पत्तिः' इति (प्र०) न च युक्तः / 0 पुनः पुनस्तत्रैव सङ्ग कर्मोत्पत्तिरूपः। // 139 //