________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 138 // श्रुतस्कन्ध:१ प्रथममध्ययनं शस्त्रपरिज्ञा, सप्तमोद्देशकः सूत्रम् 60-61 साधुत्वम् से बेमि संति संपाइमा पाणा आहच्च संपयंति य फरिसं च खलु पुट्ठा एगे संघायमावजंति, जे तत्थ संघायमावजंति ते तत्थ परियावजंति, जे तत्थ परियावजंति ते तत्थ उद्दायंति, एत्थ सत्थं समारभमाणस्स इच्छेते आरंभा अपरिण्णाया भवंति, एत्थ सत्थं असमारभमाणस्स इच्चेते आरंभा परिण्णाया भवंति, तं परिण्णाय मेहावी णेव सयं वाउसत्थं समारंभेजा णेवऽण्णेहिं वाउसत्थं समारंभावेज्जा णेवऽण्णेवाउसत्थं समारंभंते समणुजाणेजा, जस्सेते वाउसत्थसमारंभा परिण्णाया भवंति से हु मुणी परिण्णायकम्मे॥ सूत्रम् ६०॥त्तिबेमि॥ पूर्ववन्नेयं ॥५९-६०॥सम्प्रतिषड्जीवनिकायविषयवधकारिणामपायदिदर्शयिषयातन्निवृत्तिकारिणांच सम्पूर्णमुनिभावप्रदर्शनाय सूत्राणि प्रक्रम्यन्ते___ एत्थंपिजाणे उवादीयमाणा, जे आयारेण रमंति, आरंभमाणा विणयं वयंति, छंदोवणीया अज्झोववण्णा, आरंभसत्ता पकरंति संगं। सूत्रम् 61 // एतस्मिन्नपि-प्रस्तुते वायुकाये, अपिशब्दात् पृथिव्यादिषु च समाश्रितमारम्भं ये कुर्वन्ति त उपादीयन्ते-कर्मणा बध्यन्त इत्यर्थः, एकस्मिन् जीवनिकाये वधप्रवृत्ताः शेषनिकायवधजनितेन कर्मणा बध्यन्ते, किमिति?- यतो न ह्येकजीवनिकायविषय आरम्भः शेषजीवनिकायोपमर्दमन्तरेण कर्तुं शक्यत इत्यतस्त्वमेवं जानीहि, श्रोतुरनेन परामर्शः, अत्र च द्वितीयार्थे - प्रथमा, ततश्चैवमन्वयो लगयितव्यः- पृथिव्याद्यारम्भिणः शेषकायारम्भकर्मणा उपादीयमानान् जानीहि, के पुनः पृथिव्याद्यारम्भिणः शेषकायारम्भकर्मणोपादीयन्ते? इति, आह-जे आयारेण रमंति ये ह्यविदितपरमार्था ज्ञानदर्शनचरणतपोवीर्याख्ये // 138 //