________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ प्रथममध्ययनं शस्त्रपरिज्ञा, सप्तमोद्देशकः सूत्रम् 58-59 साधुत्वम् / / 137 // इह संतिगया दविया णावखंति जीविउं। सूत्रम् 58 // / इह एतस्मिन् दयैकरसे जिनप्रवचने शमनं शान्तिरुपशमः प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणसम्यग्दर्शनज्ञानचरणकलापः शान्तिरुच्यते, निराबाधमोक्षाख्यशान्तिप्राप्तिकारणत्वात्, तामेवंविधांशान्तिं गताः- प्राप्ताः शान्तिगताः, शान्तौ वा स्थिताः शान्तिगताः, द्रविका नाम रागद्वेषविनिर्मुक्ताः, द्रवः- संयमः सप्तदशविधानः कर्मकाठिन्यद्रवणकारित्वाद्-विलयहेतुत्वात् स येषां विद्यते ते द्रविकाः, नावकाङ्क्षन्ति- न वाञ्छन्ति नाभिलषन्तीत्यर्थः, किं नावकाङ्कन्ति?जीवितुं प्राणान् धारयितुं, केनोपायेन जीवितुं नाभिकाङ्क्षन्ति?, वायुजीवोपमर्दनेनेत्यर्थः, शेषपृथिव्यादिजीवकायसंरक्षणं तु पूर्वोक्तमेव, समुदायार्थस्त्वयं- इहैव जैने प्रवचने यः संयमस्तद्व्यवस्थिता एवोन्मूलितातितुङ्गरागद्वेषद्रुमाः परभूतोपमर्दनिष्पन्नसुखजीविकानिरभिलाषाः साधवो, नान्यत्र, एवंविधक्रियावबोधाभावादिति // 58 // एवं व्यवस्थिते सति___लज्जमाणा पुढो पास अणगारो मोत्ति एगे पवयमाणा जमिणं विरूवरूवेहिं सत्थेहिं वाउकम्मसमारंभेणं वाउसत्थं समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसति / तत्थ खलु भगवया परिण्णा पवेइया / इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जाईमरणमोयणाए दुक्खपडिघायहेउं से सयमेव वाउसत्थं समारभति अण्णेहिं वा वाउसत्थं समारंभावेइ अण्णे वाउसत्थं समारंभंते समणुजाणति, तं से अहियाए तं से अबोहीए, से तं संबुज्झमाणे आयाणीयं समुट्ठाए सोच्चा भगवओ अणगाराणं अंतिए इहमेगेसिं णायं भवति- एस खलु गंथे एस खलु मोहे एस खलु मारे एस खलु णिरए, इच्चत्थं गड्डिए लोए जमिणं विरूवरूवेहिं सत्थेहिं वाउकम्मसमारंभेणं वाउसत्थं समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसति // सूत्रम् 59 // ®सप्तदशविधः (प्र०)। // 137 //