________________ // 136 // श्रीआचाराङ्गन प्रवर्त्तते वायुसमारम्भे, अपि त्वहितमेतद्वायुसमारम्भणमिति मत्वा परिहरति, अतो य आतङ्कदर्शी भवति विमलविवेक- श्रुतस्कन्धः१ नियुक्तिभावात् स वायुसमारम्भस्य जुगुप्सायांप्रभुः, हिताहितप्राप्तिपरिहारानुष्ठानप्रवृत्तेः, तदन्यैवंविधपुरुषवदिति।वायुकायसमा प्रथममध्ययनं श्रीशीला० शस्त्रपरिज्ञा, वृत्तियुतम् रम्भनिवृत्तेः कारणमाह-जे अज्झत्थ मित्यादि, आत्मानमधिकृत्य यद्वर्त्तते तदध्यात्मम्, तच्च सुखदुःखादि, तद्यो जानाति- सप्तमोद्देशकः श्रुतस्कन्धः१ अवबुध्यते स्वरूपतोऽवगच्छतीत्यर्थः, स बहिरपि प्राणिगणं वायुकायादिकं जानाति, यथैषोऽपि हि सुखाभिलाषी। सूत्रम् 57 वायुसमारम्भ दुःखाच्चोद्विजते, यथा मयि दुःखमापतितमतिकटुकमसद्वेद्यकर्मोदयादशुभफलं स्वानुभवसिद्ध एवं यो वेत्ति स्वात्मनि सुखं निवृत्तिः च सद्वैद्यकर्मोदयात् शुभफलमेवं च योऽवगच्छति स खल्वध्यात्मं जानाति, एवं च योऽध्यात्मवेदी स बहिर्व्यवस्थितवायुकायादिप्राणिगणस्यापि नानाविधोपक्रमजनितं स्वपरसमुत्थं च शरीरमनःसमाश्रयं दुःखं सुखं वा वेत्ति, स्वप्रत्यक्षतया परत्राप्यनुमीयते, यस्य पुनः स्वात्मन्येव विज्ञानमेवंविधं न समस्ति कुतस्तस्य बहिर्व्यवस्थितवायुकायादिष्वपेक्षा?, यश्च बहिर्जानाति सोऽध्यात्म यथावदवैति, इतेरतराव्यभिचारादिति। परात्मपरिज्ञानाच्च यद्विधेयं तद्दर्शयितुमाह- एयं तुलमन्नेसि मित्यादि, एतां तुलां यथोक्तलक्षणाम् अन्वेषयेद्-गवेषयेदिति, का पुनरसौ तुला?, यथाऽऽत्मानं सर्वथा सुखाभिलाषितया | रक्षसि तथाऽपरमपि रक्ष, यथा परंतथाऽऽत्मानमित्येतां तुला तुलितस्वपरसुखदुःखानुभवोऽन्वेषयेद् एवं कुर्यादित्यर्थः, उक्तं चः कट्टेण कंटएण व पाए विद्धस्स वेयणट्टस्स। जह होइ अनिवाणी सव्वत्थ जिएसु तं जाण॥१॥ तथा मरिष्यामीति यद् दुःखं, पुरुषस्योपजायते। शक्यस्तेनानुमानेन, परोऽपि परिरक्षितुम् ॥१॥५७॥अतश्च यथाऽभिहिततुलातुलितस्वपरा नराः स्थावरजङ्गमजन्तुसङ्घातरक्षणायैव प्रवर्त्तन्ते, कथमिति दर्शयति (r) काष्ठेन कण्टकेन वा पादे विद्धस्य वेदनातस्य / यथा भवत्यनिर्वाणी (असाता) सर्वत्र जीवेषु तां जानीहि॥१॥ 0 स्वपरान्तराः. (प्र०)। // 136 //