________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 132 / / श्रुतस्कन्धः१ प्रथममध्ययनं शस्त्रपरिज्ञा, सप्तमोद्देशकः नियुक्तिः 168-170 वायुस्वरूपम् प्रयोगश्चायं- चेतनावान् वायुः, अपरप्रेरिततिर्यगनियमितगतिमत्त्वात्, गवाश्वादिवत्, तिर्यगेवगमननियमाभावात् अनियमितविशेषणोपादानाच्च परमाणुनाऽनैकान्तिकासंभवः, तस्य नियमितगतिमत्त्वात्, जीवपुद्गलयोः अनुश्रेणिगति (तत्त्वा० अ० 2 सू० 27) रिति वचनात्, एवमेष वायुः- घनशुद्धवातादिभेदोऽशस्त्रोपहतश्चेतनावानवगन्तव्य इति ॥१६७॥परिमाणद्वारमाह नि०-जे बायरपज्जत्ता पयरस्स असंखभागमित्ता ते / सेसा तिन्निवि रासी वीसुलोगा असंखिज्जा // 168 ॥दारं॥ ये बादरपर्याप्तका वायवस्ते संवर्त्तितलोकप्रतरासङ्ख्येयभागवर्तिप्रदेशराशिपरिमाणाः, शेषास्त्रयोऽपि राशयो विष्वक्पृथगसङ्ख्येयलोकाकाशप्रदेशपरिमाणा भवन्ति, विशेषश्चायमत्रावगन्तव्यः-बादराप्कायपर्याप्तकेभ्यो बादरवायुपर्याप्तका असङ्खयेयगुणाः बादराप्कायापर्याप्तकेभ्यो बादरवायुकायापर्याप्तका असङ्खयेयगुणाः सूक्ष्माप्कायापर्याप्तकेभ्यः सूक्ष्मवाय्वपर्याप्तका विशेषाधिकाः सूक्ष्माप्कायपर्याप्तकेभ्यः सूक्ष्मवायुपर्याप्तका विशेषाधिकाः / / 168 // उपभोगद्वारमाह नि०-वियणधमणाभिधारण उस्सिंघणफुस(म)णाणुपाणू अ। बायरवाउक्काए उवभोगगुणा मणुस्साणं / / 169 // व्यजनभस्त्राध्मानाभिधारणोत्सिङ्घनफूत्कारप्राणापानादिभिर्बादरवायुकायेन उपभोग एव गुण उपभोगगुणो मनुष्याणामिति // १६९॥शस्त्रद्वाराभिधित्सयाऽऽह, तत्र शस्त्रं द्रव्यभावभेदाद्विविधम्, द्रव्यशस्त्राभिधित्सयाऽऽह नि०-विअणे अ तालवंटे सुप्पसियपत्त चेलकण्णे य / अभिधारणा य बाहिं गंधग्गी वाउसत्थाई॥१७०।। व्यजनतालवृन्तसूर्पसितपत्रचेलकर्णादयः द्रव्यशस्त्रमिति, तत्र सितमिति चामरम्, प्रस्विन्नो यद्वहिरवतिष्ठते वातागमनमार्गे (r) तालाविंटे (प्र०)।