________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 131 // श्रुतस्कन्धः१ प्रथममध्ययनं शस्त्रपरिज़ा, सप्तमोद्देशकः नियुक्तिः |166-167 वायुस्वरूपम् अवतिष्ठन्ते, दत्तकपाटसकलवातायनद्वारगेहान्त मवत् व्याप्त्या स्थिताः, बादरभेदास्तुपञ्चैवानन्तरगाथया वक्ष्णमाणा इति // 165 // बादरभेदप्रतिपादनायाह नि०- उक्कलिया मंडलिया गुंजा घणवाय सुद्धवाया य। बायरवाउविहाणा पंचविहा वण्णिया एए॥१६६ ॥दारं / / स्थित्वा स्थित्वोत्कलिकाभिर्यो वाति स उत्कलिकावातः, मण्डलिकावातस्तु वातोलीरूपः, गुञ्जा- भम्भा तद्वगुञ्जन्यो वाति स गुञ्जावातः, घनवातोऽत्यन्तघनः पृथिव्याद्याधारतया व्यवस्थितो हिमपटलकल्पः, मन्दस्तिमितःशीतकालादिषु शुद्धवातः, ये त्वन्ये प्रज्ञापनादौ प्राच्यादिवाता अभिहितास्तेषामेष्वेव यथायोगमन्तर्भावो द्रष्टव्य इति, एवमेते बादरवायुविधानानि-भेदाः पञ्चविधाः प्रञ्चप्रकारा व्यावर्णिता इति // 166 // लक्षणद्वाराभिधित्सयाऽऽह नि०-जह देवस्स सरीरं अंतद्धाणं व अंजणाईसुं। एओवम आएसो वाएऽसंतेऽविरूवंमि॥१६७॥ यथा देवस्य शरीरं चक्षुषाऽनुपलभ्यमानमपि विद्यते चेतनावच्चाध्यवसीयते, देवाः स्वशक्तिप्रभावात्तथाभूतं रूपं कुर्वन्ति यच्चक्षुषा नोपलभ्यते, न चैतद्वक्तुं शक्यते- नास्त्यचेतनं चेति, तद्वद्वायुरपि चक्षुषो विषयो न भवति, अस्ति च चित्तवांश्चेति, यथा वाऽन्तर्धानमञ्जनविद्यामन्त्रैर्भवति मनुष्याणाम्, न च नास्तित्वमचेतनत्वं चेति, एतदुपमानो वायावपि भवति आदेशो व्यपदेशोऽसत्यपि रूपइति, अत्र चासच्छब्दो नाभाववचनः, किंत्वसद्रूपंवायोरिति चक्षुर्गाह्यं तद्रूपंन भवति, सूक्ष्मपरिणामात्, परमाणोरिव, रूपरसगन्धस्पर्शात्मकश्च वायुरिष्यते, न यथाऽन्येषां वायुः स्पर्शवानेवेति, प्रयोगार्थश्च गाथया प्रदर्शितः, 0 एतदुपमानेन (प्र०)। ॐ परमाणुरिव (प्र०)। // 131 //