________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ प्रथममध्ययनं शस्त्रपरिज्ञा, सप्तमोद्देशकः नियुक्तिः |164-165 वायुस्वरूपम् श्रुतस्कन्धः१ // 130 // प्राग्वद्वाच्यम्, यावत्स एव मुनिस्त्रसकायसमारम्भविरतत्वात् परिज्ञातकर्मत्वात्प्रत्याख्यातपापकर्मत्वादिति ब्रवीमि भगवतः त्रिलोकबन्धोः परमकेवलालोकसाक्षात्कृतसकलभुवनप्रपञ्चस्योपदेशादिति। शस्त्रपरिज्ञायाऽध्ययने षष्ठोद्देशकः // 1-6 // ॥प्रथमाऽध्ययने सप्तमोद्देशकः॥ उक्तः षष्ठोद्देशकः, साम्प्रतं सप्तमः समारभ्यते, अस्य चायमभिसम्बन्धः-अभिनवधर्माणां दुःश्रद्धानत्वादल्पपरिभोगत्वादुत्क्रमायातस्योक्तशेषस्य वायोः स्वरूपनिरूपणार्थमिदमुपक्रम्यते- तदनेन सम्बन्धेनायातस्यास्योद्देशकस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणि वाच्यानि यावन्नामनिष्पन्ने निक्षेपे वायूद्देशक इति, तत्र वायोः स्वरूपनिरूपणाय कतिचिट्ठारातिदेशगर्भा नियुक्तिकृद्गाथामाह नि०- वाउस्सऽवि दाराई ताईजाइं हवंति पुढवीए। नाणत्ती उ विहाणे परिमाणुवभोगसत्थे य // 164 // वातीति वायुस्तस्य वायोरपि तान्येव द्वाराणि यानि पृथिव्यां प्रतिपादितानि, नानात्वं-भेदः, तच्च विधानपरिमाणोपभोगशस्त्रेषु, चशब्दाल्लक्षणे च द्रष्टव्यमिति // 164 // तत्र विधानप्रतिपादनायाह नि०- दुविहा उ वाउजीवा सुहमा तह बायरा उ लोगंमि।सुहुमा यसवलोए पंचेव य बायरविहाणा॥१६५ // वायुरेव जीवा वायुजीवाः, ते च द्विविधाः-सूक्ष्मबादरनामकर्मोदयात् सूक्ष्मा बादराश्च, तत्र सूक्ष्माः सकललोकव्यापितया 0 वद्भावनीयं (प्र०)। // 1