SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ | // 127 // श्रुतस्कन्धः१ प्रथममध्ययन शस्त्रपरिज्ञा, षष्ठोद्देशकः सूत्रम् 52 त्रसवधः भयमस्तीति महाभयम्, तथाहि-सर्वेऽपि शारीरान्मानसाच्च दुःखादुद्विजन्ते प्राणिन इति, इतिशब्द एवमर्थे, एवमहं ब्रवीमि सम्यगुपलब्धतत्त्वो यत्प्रागुक्तमिति / एतच्च ब्रवीमीत्याह- तसंती त्यादि, एवंविधेन च असातादिविशेषणविशिष्टेन दुःखेनाभिभूतास्त्रस्यन्ति- उद्विजन्ति प्राणा इति प्राणिनः, कुतः पुनरुद्विजन्तीति दर्शयति- प्रगता दिक् प्रदिग्विदिक् इत्यर्थः, ततः प्रदिशः सकाशादुद्विजन्ति, तथा प्राच्यादिषु च दिक्षुव्यवस्थितास्त्रस्यन्ति, एताश्च प्रज्ञापकविधिविभक्ता दिशोऽनुदिशश्च गृह्यन्ते, जीवव्यवस्थानश्रवणात्, ततश्चायमर्थः प्रतिपादितो भवति काक्वा न काचिद्दिगनुदिग्वा यस्यांन सन्ति त्रसा: त्रस्यन्ति वा न यस्यां स्थिताः-कोशिकारकीटवत्, कोशिकारकीटो हि सर्वदिग्भ्योऽनुदिग्भ्यश्च बिभ्यदात्मसंरक्षाणार्थं वेष्टनं करोति शरीरस्येति, भावदिगपिन काचित्तादृश्यस्ति यस्यां वर्तमानो जन्तुर्न त्रस्येत्, शारीरमानसाभ्यां दुःखाभ्यां सर्वत्र नरकादिषु जन्यन्ते प्राणिनोऽतस्त्रासपरिगतमनसः सर्वदाऽवगन्तव्याः॥५१॥ एवं सर्वत्र दिक्ष्वनुदिक्षु च त्रसाः सन्तीति गृह्णीमः, दिग्विदिग्व्यवस्थितास्त्रसास्त्रस्यन्तीत्युक्तम्, कुतः पुनस्त्रस्यन्ति?- यस्मात्तदारम्भवद्भिस्ते व्यापाद्यन्ते, किं पुनः कारणं? ते तानारम्भन्त इत्यत आह तत्थ तत्थ पुढो पास आतुरा परितावंति, संति पाणा पुढो सिया॥सूत्रम् 52 // तत्र तत्र तेषु तेषु कारणेषूत्पन्नेषु वक्ष्यमाणेषु अर्चाजिनशोणितादिषु च पृथग्विभिन्नेषु प्रयोजनेषु, पश्येति शिष्यचोदना, किं तत्पश्येति दर्शयति- मांसभक्षणादिगृद्धा आतुराः- अस्वस्थमनसः परि-समन्तात्तापयन्ति-पीडयन्ति नानाविधवेदनोत्पादनेन प्राणिव्यापादनेन वा तदारम्भिणस्त्रसानिति, येन केनचिदारम्भेण प्राणिनां सन्तापनं भवतीति दर्शयन्नाह- संती त्यादि, सन्ति विद्यन्ते प्रायः सर्वत्रैव प्राणाः- प्राणिनः पृथक् विभिन्नाः द्वित्रिचतुःपञ्चेन्द्रियाः श्रिताः पृथिव्यादिश्रिताः, एतच्च ज्ञात्वा // 127 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy