________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 126 // श्रुतस्कन्धः१ प्रथममध्ययन शस्त्रपरिज्ञा, षष्ठोद्देशकः सूत्रम् 51 संसारो दुःखम् हिताहितप्राप्तिपरिहारशून्यमनसः इत्येषोऽनन्तरोक्तः संसारो भवतीति // 50 // यद्येवं ततः किमित्याह निज्झाइत्ता पडिलेहित्ता पत्तेयं परिनिव्वाणं सव्वेसिं पाणाणं सव्वेसिं भूयाणं सव्वेसिं जीवाणं सव्वेसिं सत्ताणं अस्सायं अपरिनिव्वाणं महब्भयं दुक्खं ति बेमि, तसंति पाणा पदिसो दिसासु य॥सूत्रम् 51 // __ एवमिमंत्रसकायमागोपालाङ्गनादिप्रसिद्धं निश्चयेन ध्यात्वा निर्ध्याय चिन्तयित्वेत्यर्थः, क्त्वाप्रत्ययस्योत्तरक्रियापेक्षत्वाद् ब्रवीमीत्युत्तरक्रिया सर्वत्र योजनीयेति / पूर्वं च मनसाऽऽलोच्य ततः प्रत्युपेक्षणं भवतीति दर्शयति-पडिलेहेत्त त्ति प्रत्युपेक्ष्यदृष्ट्वा यथावदुपलभ्येत्यर्थः, किंतदिति दर्शयति- प्रत्येक मित्येकमेकं त्रसकायंप्रति परिनिर्वाणं सुखं प्रत्येकसुखभाजः सर्वेऽपि प्राणिनः, नान्यदीयमन्य उपभुङ्क्ते सुखमित्यर्थः, एष च सर्वप्राणिधर्म इति दर्शयति-सर्वेषां प्राणिनां-द्वित्रिचतुरिन्द्रियाणाम्, तथा सर्वेषां भूतानां- प्रत्येकसाधारणसूक्ष्मबादरपर्याप्तकापर्याप्तकतरूणामिति, तथा सर्वेषां जीवानां-गर्भव्युत्क्रान्तिकसम्मूछेनजौपपातिकपञ्चेन्द्रियाणाम्, तथा सर्वेषां सत्त्वानां- पृथिव्याघेकेन्द्रियाणामिति, इह च प्राणादिशब्दानां यद्यपि परमार्थतोऽभेदस्तथापि उक्तन्यायेन भेदो द्रष्टव्यः, उक्तं च प्राणा द्वित्रिचतुः प्रोक्ताः, भूतास्तु तरवः स्मृताः। जीवाः पञ्चेन्द्रियाः प्रोक्ताः, शेषाः सत्त्वा उदीरिताः॥१॥इति, यदिवा शब्दव्युत्पत्तिद्वारेण समभिरूढनयमतेन भेदो द्रष्टव्यः, तद्यथा-सततप्राणधारणात्प्राणाः कालत्रयभवनाद् भूतास्त्रिकालजीवनात् जीवाः सदाऽस्तित्वात्सत्त्वा इति, तदेवं विचिन्त्य प्रत्युपेक्ष्य च यथा सर्वेषां जीवानां प्रत्येकं परिनिर्वाणं-सुखं तथा प्रत्येकमसातं- अपरिनिर्वाणं महाभयं दुःखमहं ब्रवीमि, तत्र दुःखयतीति दुःखम्, तद्विशिष्यते किंविशिष्टं? - असातं असद्वेधकाँशविपाकजमित्यर्थः, तथा अपरिनिर्वाण मिति समन्तात् सुखं परिनिर्वाणं नपरिनिर्वाणमपरिनिर्वाणं समन्तात् शरीरमनःपीडाकरमित्यर्थः, तथा महाभय मिति महच्च तद्भयंच महाभयम्, नात: परमन्यद् // 126 //