________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्ध:१ // 125 // श्रुतस्कन्धः 1 प्रथममध्ययनं | शस्त्रपरिज्ञा, षष्ठोद्देशकः सूत्रम् 50 त्रसभेदाः लीचर्मजलूकादयः, जरायुवेष्टिता जायन्त इति जरायुजाः, पूर्ववत् डप्रत्ययः, गोमहिष्यजाविकमनुष्यादयः, रसाज्जातारसजाःतक्रारनालदधितीमनादिषु पायुकृम्याकृतयोऽतिसूक्ष्मा भवन्ति, संस्वेदाज्जाताः संस्वेदजाः-मत्कुणयूकाशतपदिकादयः, सम्मुर्छनाज्जाताः सम्मूर्छनजाः-शलभपिपीलिकामक्षिकाशालिकादयः, उद्भेदनमुद्भित्ततो जाता उद्भिजाः, पृषोदरादित्वाद्दलोपः, पतङ्गखञ्जरीटपारीप्लवादयः, उपपाताजाता उपपातजाः, अथवा उपपाते भवा औपपातिकाः- देवा नारकाच, एवमष्टविधं जन्म यथासम्भवं संसारिणो नातिवर्तन्ते, एतदेव शास्त्रान्तरे त्रिविधमुपन्यस्तं सम्मूर्छनगर्भोपपाताजन्म (तत्त्वार्थ अ०२ सू०३२) रसस्वेदजोद्भिजानां सम्मूर्छनजान्तःपातित्वात् अण्डजपोतजजरायुजानां गर्भजान्त:पातित्वात् देवनारकाNणामौपपातिकान्त:पातित्वात् इति त्रिविधं जन्मेति, इह चाष्टविधं सोत्तरभेदत्वादिति / एवमेतस्मिन्नष्टविधे जन्मनि सर्वे त्रसजन्तवः संसारिणो निपतन्ति, नैतद्व्यतिरेकेणान्ये सन्ति, एते चाष्टविधयोनिभाजोऽपि सर्वलोकप्रतीता बालाङ्गनादिजनप्रत्यक्षप्रमाणसमधिगम्याः, सन्ति च अनेन शब्देन त्रैकालिकमस्तित्वं प्रतिपाद्यते त्रसानाम्, न कदाचिदेतैर्विरहितः संसारः सम्भवतीति, एतदेव दर्शयति- एस संसारोत्ति पवुच्चति एषोऽण्डजादिप्राणिकलापः संसारः प्रोच्यते, नातोऽन्यस्त्रसानामुत्पत्तिप्रकारोऽस्तीत्युक्तं भवति // 49 // कस्य पुनरत्राष्टविधभूतग्रामे उत्पत्तिर्भवतीत्याह___ मंदस्सावियाणओ।सूत्रम् 50 // मन्दो द्विधा-द्रव्यभावभेदात्, तत्र द्रव्यमन्दोऽतिस्थूलोऽतिकृशो वा, भावमन्दोऽप्यनुपचितबुद्धिर्बाल: कुशास्त्रवासितबुद्धिर्वा, अयमपि सद्बुद्धेरभावाद्वाल एव, इह भावमन्देनाधिकारः, मन्दस्ये ति बालस्याविशिष्टबुद्धेः अत एवाविजानतो (r) संसारेत्ति (प्र०)। // 125 //