SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 124 // श्रुतस्कन्धः१ प्रथममध्ययनं शस्त्रपरिज्ञा, षष्ठोद्देशकः नियुक्ति: 163 सूत्रम् 49 त्रसशस्त्रादिः त्रसभेदाः केचित्तु प्रयोजनमन्तरेणापि क्रीडया घ्नन्ति, तथा परे प्रसङ्गदोषात् मृगलक्षक्षिप्तेषु लेलुकादिना तदन्तरालव्यवस्थिता अनेके कपोतक पिञ्जलशुकसारिकादयो हन्यन्ते, तथा कर्म-कृष्याद्यनेकप्रकारं तस्य प्रसङ्ग:-अनुष्ठानं तत्र प्रसक्ताः-तनिष्ठाः सन्तस्त्रसकायिकान् बहून् बध्नन्ति रज्ज्वादिना, घ्नन्ति-कशलकुटादिभिः ताडयन्ति, मारयन्ति प्राणैर्वियोजयन्तीति / / 162 / / एवं विधानादिद्वारकलापमुपवर्ण्य सकलनिर्युक्त्यर्थोपसंहारायाह नि०-सेसाइंदाराई ताईजाइं हवंति पुढवीए, एवं तसकायमी निजुत्ती कित्तिया एसा / / 163 // उक्तव्यतिरिक्तानि शेषाणि द्वाराणि तान्येव वाच्यानि यानि पृथ्वीस्वरूपसमधिगमे निरूपितानि, अत एवमशेषद्वाराभिधानात्त्रसकाये नियुक्तिः कीर्त्तितैषा सकला भवतीत्यवगन्तव्येति // 163 ॥साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदं से बेमि संतिमे तसा पाणा, तंजहा-अंडया पोयया जराउआ रसया संसेयया संमुच्छिमा उब्भियया उववाइया, एस संसारेत्ति पवुच्चई। सूत्रम् 49 // अस्य चानन्तरपरम्परादिसूत्रसम्बन्धः प्राग्वद्वाच्यः, सोऽहं ब्रवीमि येन मया भगवद्वदनारविन्दविनिसृतार्थजातावधारणाद्यथावदुपलब्धं तत्त्वमिति, सन्ति विद्यन्ते त्रस्यन्तीति त्रसा:-प्राणिनो द्वीन्द्रियादयः, ते च कियद्भेदाः किंप्रकाराश्चेति दर्शयतितद्यथेति वाक्योपन्यासार्थः, यदिवा तत् प्रकारान्तरमर्थतो यथा भगवताऽभिहितं तथाऽहं भणामीति, अण्डाज्जाताः अण्डजाःपक्षिगृहकोकिलादयः, पोतादेव जायन्ते पोतजाः अन्येष्वपि दृश्यते (पा-३-२-१०१) इति जनेर्डप्रत्ययः, ते च हस्तिवल्गु ®पोता एव (प्र०)। // 124
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy