________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 119 // नास्ति, तेजसोऽभिहितत्वाद्वायोश्चाभिधास्यमानत्वाद्, अत: सामर्थ्याद्गतिवसा एवाधिक्रियन्ते // 153 // के पुनस्ते कियढ़ेदा श्रुतस्कन्ध:१ वेत्यत आह प्रथममध्ययनं शस्त्रपरिज्ञा, नि०- नेरइयतिरियमणुया सुरा य गइओ चउव्विहा चेव / पज्जत्ताऽपज्जत्ता नेरइयाई अनायव्वा // 154 // षष्ठोद्देशक: नारका- रत्नप्रभादिमहातमःपृथ्वीपर्यन्तनरकावासिनः सप्तभेदाः, तिर्यश्चोऽपि द्वित्रिचतुष्पञ्चेन्द्रियाः, मनुष्याः सम्मूर्छनजाः नियुक्तिः 152-155 गर्भव्युत्क्रान्तयश्च, सुरा भवनपतिव्यन्तरज्योतिष्कवैमानिकाः, एते गतित्रसाश्चतुर्विधाः, नामकर्मोदयाभिनिवृत्तगतिलाभा त्रसस्वरूपम् दतित्रसत्वम्, एते च नारकादयः पर्याप्तापर्याप्तभेदेन द्विविधा ज्ञातव्याः, तत्र पर्याप्तिः पूर्वोक्तैव षोढा, तया यथासम्भवं निष्पन्नाः पर्याप्ताः, तद्विपरीतास्त्वपर्याप्तका अन्तर्मुहुर्त्तकालमिति // 154 // इदानीमुत्तरभेदानाह नि०-तिविहा तिविहा जोणी अंडापोअअजराउआ चेव / बेइंदिय तेइन्दिय चउरो पंचिंदिया चेव / / 155 ।।दारं // अत्र हिशीतोष्णमिश्रभेदात्तथा सचित्ताचित्तमिश्रभेदात्तथा संवृतविवृततदुभयभेदात्तथा स्त्रीपुंनपुंसकभेदाच्चेत्यादीनि बहूनि , योनीनां त्रिकाणि सम्भवन्ति, तेषां सर्वेषां सङ्ग्रहार्थं त्रिविधा त्रिविधेति वीप्सानिर्देशः, तत्र नारकाणामाद्यासु तिसृषु भूमिषु शीतैव योनि: चतुर्थ्यामुपरितननरकेषु शीता अधस्तननरकेषूष्णा पञ्चमीषष्ठीसप्तमीषूष्णैव नेतरे, गर्भव्युत्क्रान्तिकतिर्यमनुष्याणामशेषदेवानां च शीतोष्णा योनिर्नेतरे, द्वित्रिचतुःपञ्चेन्द्रियसंमूर्छनजतिर्यमनुष्याणां त्रिविधाऽपि योनिः शीता उष्णा ®व्युत्कान्ताश्च (प्र०)। शीता शीतोष्णेति / तत्र नारकाणामाद्यासु तिसृषु भूमिपूष्णैव योनिः चतुर्थ्यामुपरितननरकेषूष्णाऽधस्तननरकेषु शीता पञ्चमीषष्ठीसप्तमीषु | शीतैव नेतरे इति पा., मतान्तराभिप्रायकश्चायं पाठः, अस्ति सङ्गहणीवृत्तावेवं मतद्वयमपि / // 119 //