SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ ब्रवीमि पूर्ववदिति // 48 // इति शस्त्रपरिज्ञायाऽध्ययने पञ्चमोद्देशकः।। श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 118 // श्रुतस्कन्धः१ प्रथममध्ययन शस्त्रपरिज्ञा, षष्ठोद्देशकः नियुक्तिः 152-153 त्रसस्वरूपम् ॥प्रथमाऽध्ययने षष्ठोद्देशकः॥ उक्तः पञ्चमोद्देशकः, साम्प्रतं षष्ठः समारभ्यते- अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके वनस्पतिकायः प्रतिपादितः, तदनन्तरं च त्रसकायस्यागमे परिपठितत्वात्तत्स्वरूपाधिगमायायमुद्देशकः समारभ्यते, तस्य चोपक्रमादीनि चत्वार्यनुयोगद्वाराणि वाच्यानि, यावन्नामनिष्पन्ने निक्षेपेत्रसकायोद्देशकः, तत्र त्रसकायस्य पूर्वप्रसिद्धद्वारक्रमातिदेशाय तद्विभिन्नलक्षणद्वाराभिधानाय च नियुक्तिकृदाह नि०- तसकाए दाराई ताईजाईहवंति पुढवीए। नाणत्ती उ विहाणे परिमाणुवभोगसत्थे य॥१५२॥ त्रस्यन्तीति त्रसास्तेषां कायस्त्रसकायस्तस्मिंस्तान्येव द्वाराणि भवन्ति यानि पृथिव्यां प्रतिपादितानि, नानात्वं तु विधानपरिमाणोपभोगशस्त्रद्वारेषु, चशब्दाल्लक्षणे च प्रतिपत्तव्यमिति // 152 / / तत्र विधानद्वारमाह नि०- दुविहाखलु तसजीवा लद्धितसा चेव गइतसा चेव / लद्धीय तेउवाऊ तेणऽहिगारो इहं नत्थि // 153 // द्विविधा द्विभेदाः, खलुरवधारणे, त्रसत्वं प्रति द्विभेदत्वमेव, त्रसनात्- स्पन्दनात् त्रसाः, जीवनात्प्राणधारणाजीवाः, तसा एव जीवास्त्रसजीवाः, लब्धिसा गतित्रसाश्च, लब्ध्या तेजोवायू त्रसौ, लब्धिस्तच्छक्तिमात्रम्, लब्धित्रसाभ्यामिहाधिकारो 8 // 118 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy