SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 117 // श्रुतस्कन्धः१ प्रथममध्ययनं शस्त्रपरिज्ञा, षष्ठोद्देशक: सूत्रम् 48 जीवलिङ्गम् नाद्याहाराभ्यवहारादाहारकंतथैतदपि वनस्पतिशरीरं भूजलाद्याहाराभ्यवहारकम्, न चैतदाहारकत्वमचेतनानां दृष्टम्, अतस्तद्भावात्सचेतनत्वमिति / तथा यथेदं मनुष्यशरीरमनित्यक-नसर्वदाऽवस्थायि तथैतदपि वनस्पतिशरीरमनित्यं नियतायुष्कत्वात्, तथाहि-अस्य दश वर्षसहस्राणि उत्कृष्टमायुः / तथा यथेदं मनुष्यशरीरमशाश्वतं- प्रतिक्षणमावीचीमरणेन मरणात् तथैतदपि वनस्पतिशरीरमिति / तथा यथेदमिष्टानिष्टाहारादिप्राप्त्या चयापचयिकं वृद्धिहान्यात्मकं तथैतदपि इति / तथा यथेदं मनुष्यशरीरं विविधपरिणामः- तत्तद्रोगसम्पर्कात् पाण्डुत्वोदरवृद्धिशोफकृशत्वाङ्गलिनासिकाप्रवेशादिरूपो बालादिरूपो वा, तथा छ रसायनस्नेहाधुपयोगाद्विशिष्टकान्तिबलोपचयादिरूपो विपरिणामस्तद्धर्मकं तत्स्वभावकं तथैतदपि वनस्पतिशरीरं तथाविधरोगोद्भवात्पुष्पपत्रफलत्वगाद्यन्यथाभवनात् तथाविधदौहृदप्रदानेन पुष्पफलाद्युपचयाद्विपरिणामधर्मकम् / एवमनन्तरोक्तधर्मकलापसद्भावादसंशयं गृहाणैतत्-सचेतनास्तरव इति ॥एवं वनस्पतेश्चैतन्यं प्रदर्श्य तदारम्भे बन्धं तत्परिहाररूपविरत्यासेवनेन च मुनित्वं प्रतिपादयन्नुपसञ्जिहीर्षुराह एत्थ सत्थं समारभमाणस्य इच्चेते आरंभा अपरिण्णाता भवंति, एत्थ सत्थं असमारभमाणस्स इच्छेते आरंभा परिणाया भवंति,तं परिण्णाय मेहावी णेव सयं वणस्सइसत्थं समारंभेजा णेवण्णेहिं वणस्सइसत्थं समारंभावेजा णेवण्णे वणस्सइसत्थं समारंभंते समणुजाणेजा, जस्सेते वणस्सतिसत्थसमारंभा परिणाया भवंति से हु मुणी परिण्णायकम्मे // सूत्रम् 48 // त्ति बेमि॥पञ्चम उद्देशकः समाप्तः॥१-५॥ एतस्मिन् वनस्पतौ शस्त्रं द्रव्यभावाख्यमारभमाणस्येत्येते आरम्भा अपरिज्ञाता-अप्रत्याख्याता भवन्ति, एतस्मिंश्च वनस्पतौ शस्त्रमसमारभमाणस्येत्येते आरम्भाः परिज्ञाताः-प्रत्याख्याता भवन्तीति पूर्ववच्चर्चः, यावत् स एव मुनिः परिज्ञातकर्मेति // 117 // 3888888888
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy