SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 116 // जातिधर्मत्वे मनुष्यादिशरीरमेव सचेतनं न वनस्पतिशरीरमिति, ननु च जातिधर्मत्वं केशनखदन्तादिष्वप्यस्ति, अव्यभिचारिक श्रुतस्कन्धः१ च लक्षणं भवत्यस्ति च व्यभिचारः, तस्मादयुक्तं कल्पयितुं जातिधर्मत्वं जीवलिङ्गमिति, उच्यते, सत्यमस्ति जननमात्रम्, प्रथममध्ययनं शस्त्रपरिज्ञा, किन्तु मनुष्यशरीरप्रसिद्धबालकुमारयुववृद्धावस्थानामसम्भवः केशादिष्वस्ति स्फुटः, तस्मादसमञ्जसमेतद्, अपि च पञ्चमोद्देशकः केशनखं चेतनावत्पदार्थाधिष्ठितशरीरस्थं जातमित्युच्यते, वर्द्धते इति वा, न पुनस्त्वयैवं तरवोऽपि चेतनावत्पदार्थाधारस्था सूत्रम् 46-47 जीवलिङ्गम् इष्यन्ते, त्वन्मते भुवोऽचेतनत्वात्तस्मादयुक्तमिति / अथवा जातिधर्मत्वादीनि समुदितानि सूत्रोक्तान्येक एव हेतुः, न पृथक् / हेतुता, न चसमुदायहेतुः केशादिष्वस्ति तस्माददोष इति / तथा यथेदं मनुष्यशरीरकमनवरतं बालकुमाराद्यवस्थाविशेषैर्वर्द्धते, तथैतदपि वनस्पतिशरीरमङ्करकिशलयशाखाप्रशाखादिभिर्विशेषैर्वर्द्धत इति, तथा यथेदं मनुष्यशरीरं चित्तवदेवं वनस्पति शरीरमपि चित्तवत्, कथं?, चेतयति येन तच्चित्तं- ज्ञानम्, ततश्च यथा मनुष्यशरीरं ज्ञानेनानुगतमेवं वनस्पतिशरीरमपि, यतो धात्रीप्रपन्नाटादीनां स्वापविबोधसद्भावः तथाऽधोनिखातद्रविणराशेः स्वप्ररोहणावेष्टनं प्रावृड्जलधरनिनादशिशिरवायुसंस्पर्शादङ्करोद्भेदः, तथा मदमदनसङ्गस्खलद्गतिविघूर्णमानलोललोचनविलासिनीसन्नूपुरसुकुमारचरणताडनादशोकतरोः। पल्लवकुसुमोद्भेदः, तथा सुरभिसुरागण्डूषसेकाद्बकुलस्य स्पृष्टप्ररोदिकादीनां च हस्तादिसंस्पर्शात्सङ्कोचादिका परिस्फुटा क्रियोपलब्धिः, न चैतदभिहिततरुसम्बन्धि क्रियाजालं ज्ञानमन्तरेण घटते, तस्मात्सिद्ध चित्तवत्त्वं वनस्पतेः इति / तथा यथेदं मनुष्यशरीरं छिन्नं म्लायति तथैतदपि छिन्नंम्लायति, मनुष्यशरीरं हि हस्तादि छिन्नंम्लायति-शुष्यति, तथा तरुशरीरमपि 8 // 116 // पल्लवफलकुसुमादि छिन्नं शोषमुपगच्छत् दृष्टम्, न चाचेतनानामयं धर्म इति / तथा यथेदं मनुष्यशरीरं स्तनक्षीरव्यञ्जनौद (c) कुमारकयुववृद्धाद्यवस्था० (मु०)। 0 प्ररोहिका० (मु०)। 0 तथेदमपि प्र० /
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy