________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ प्रथममध्ययनं शस्त्रपरिज्ञा, पञ्चमोद्देशक: सूत्रम् 46-47 जीवलिङ्गम् श्रुतस्कन्ध:१ // 115 // वणस्सइसत्थं समारभमाणे समणुजाणइ, तं से अहियाए तं से अबोहीए, से तं संबुज्झमाणे आयाणीयं समुट्ठाए सोच्चा भगवओ अणगाराणं वा अंतिए इहमेगेसिं णायं भवति-एस खलु गंथे एस खलु मोहे एस खलु मारे एस खलु णरए, इच्चत्थं गडिए लोए, जमिणं विरूवरूवेहिं सत्थेहिं वणस्सइकम्मसमारंभेणं वणस्सइसत्थं समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसंति॥सूत्रम् 46 // प्राग्वत् ज्ञेयम्, नवरं वनस्पत्यालापो विधेय इति // साम्प्रतं वनस्पतिजीवास्तित्वे लिङ्गमाह से बेमि इमंपिजाइधम्मयं एयंपिजाइधम्मयं, इमंपिवुड्डिधम्मयं एयंपिवुड्डिधम्मयं, इमंपि चित्तमंतयं एयंपि चित्तमंतयं, इमंपि छिण्णं मिलाइ एयपि छिण्णं मिलाइ, इमंपि आहारगं एयंपि आहारगं, इमंपि अणिच्चयं एयपि अणिच्चयं, इमंपि असासयं एयंपि असासयं, इमंपिचओवचइयं एयपि चओववचइयं इमंपि विपरिणामधम्मयं एयपि विपरिणामधम्मयं // सूत्रम् 47 // / सोऽहमुपलब्धतत्त्वो ब्रवीमि, अथवा वनस्पतिचैतन्यं प्रत्यक्षप्रमाणसमधिगम्यमानस्वरूपं यत्तदहं ब्रवीमि, यथाप्रतिज्ञातमर्थं दर्शयति- इमंपि जाइधम्मयं ति इहोपदेशदानाय सूत्रारम्भस्तद्योग्यश्च पुरुषो भवत्यतस्तस्य सामर्थ्येन सन्निहितत्वात्तच्छरीरं प्रत्यक्षासन्नवाचिनेदमा परामृशति, इदमपि-मनुष्यशरीरम्, जननं-जातिरूत्पत्तिस्तद्धर्मकम्, एतदपि वनस्पतिशरीरंतद्धर्मकं तत्स्वभावमेवेति, पूर्वकोऽपिशब्दः सर्वत्र यथाशब्दार्थे द्वितीयस्तु समुच्चये व्याख्येयः, ततश्चायमर्थः-यथा पुरुषशरीरं बालकुमारयुववृद्धतापरिणामविशेषवत् चेतनावत्सदाधिष्ठितं प्रस्पष्टचेतनाकमुपलभ्यते, तथेदमपि वनस्पतिशरीरम्, यतो जातः केतकतरुर्बालको युवा बृद्धश्च संवृत्त इति, अतस्तुल्यत्वादेतदपि जातिधर्मकम्, न च कश्चिद्विशेषोऽस्ति, येन सत्यपि 7 इमंपि अधुवं एयंपि अधुवं (प्र०)। 0 विपरिणामनामियं (प्र०)। // 115 //