________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ श्रुतस्कन्धः१ प्रथममध्ययनं शस्त्रपरिज्ञा, पञ्चमोद्देशकः सूत्रम् 44-46 शब्दादिगुणाः // 114 // पुणो पुणो गुणासाए, वंकसमायारे। सूत्रम् 44 // ततश्चासावसकृच्छब्दादिगुणलुब्धो न शक्नोत्यात्मानं शब्दादिगृद्धेर्निवर्तयितुम्, अनिवर्तमानश्च पुनः पुनर्गुणास्वादोभवति, क्रियासातत्येन शब्दादिगुणानास्वादयतीत्यर्थः, तथा च यादृशो भवति तद्दर्शयति-वक्रोऽसंयमः कुटिलो नरकादिगत्याभिमुख्यप्रवणत्वात्, समाचरणं समाचारः-अनुष्ठानम्, वक्र; समाचारो यस्यासौ वक्रसमाचारः, असंयमानुष्ठायीत्यर्थः, अवश्यमेव शब्दादिविषयाभिलाषी भूतोपमईकारीत्यतो वक्रसमाचारः, प्राक् शब्दादिविषयलवसमास्वादनाद्द्धः पुनरात्मानमावारयितुमसमर्थत्वादपथ्याम्रफलभोजिराजवद्विनाशमाशु संश्रयत इति // 44 // एवं चासौ नितरां जितः शब्दादिविषयसमास्वादनात् खंतपुत्तोव्व इदमाचरति पमत्तेऽगारमावसे ॥सूत्रम् 45 // प्रमत्तो विषयविषमूर्छितः अगारं गृहमावसति, योऽपि द्रव्यलिङ्गसमन्वितःशब्दादिविषयप्रमादवान असावपि विरतिरूपभावलिङ्गरहितत्वात् गृहस्थ एवेति॥४५॥अन्यतीर्थिकाः पुनःसर्वदा सर्वथाऽन्यथावादिनोऽन्यथाकारिण इति दर्शयितुमाह लज्जमाणा पुढो पास, अणगारा मोत्ति एगे पवदमाणा जमिणं विरूवरूवेहिं सत्थेहिं वणस्सइकम्मसमारंभेणं वणस्सइसत्थं समारभमाणा अण्णे अणेगरूवे पाणे विहिंसंति, तत्थ खलु भगवया परिण्णा पवेदिता, इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जातीमरणमोयणाए दुक्खपडिघायहेउंसे सयमेव वणस्सइसत्थं समारंभइ अण्णेहिंवा वणस्सइसत्थं समारंभावेड़ अण्णे वा ७०माचारयितु० (मु०)। // 114 //