SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 113 // B प्रज्ञापकदिगङ्गीकरणादूर्द्धदिग्व्यवस्थितं रूपगुणं पश्यति प्रासादतलहादिषु, अव मित्यवाङ्, अधस्तागिरिशिखर श्रुतस्कन्धः१ प्रासादाधिरूढोऽधोव्यवस्थितं रूपगुणं पश्यति, अधःशब्दार्थे, अवाङित्ययं वर्त्तते, गृहभित्त्यादिव्यवस्थितं रूपगुणं तिर्यक् / प्रथममध्ययनं शस्त्रपरिज्ञा, पश्यति, तिर्यक्शब्देन चात्र दिशोऽनुदिशश्च परिगृह्यन्ते, ताश्चेमाः- प्राचीन मिति पूर्वा दिग्, एतच्चोपलक्षणम्, अन्या अप्येत पञ्चमोद्देशकः दाद्यास्तिर्यग्दिशो द्रष्टव्या इति, एतासु दिक्षु पश्यन् चक्षुर्ज्ञानपरिणतो रूपादिद्रव्याणि चक्षुाह्यतया परिणतानि पश्यति सूत्रम् 43 उपलभत इत्यर्थः, तथा तासु च शृण्वन् शृणोति शब्दानुपयुक्तः श्रोत्रेण नान्यथेति / अत्रोपलब्धिमानं प्रतिपादितम्, न चोप शब्दादिगुणाः लब्धिमात्रात्संसारप्रपातः, किंतु यदि मूछौं रूपादिषु करोति, ततोऽस्य बन्ध इति दर्शयितुमाह- उड्ढमित्यादि पुनरूर्द्धादेर्मूर्छासम्बन्धनार्थमुपादानम्, मूर्छन् रूपेषु मूर्छति, रागपरिणामं यान् रज्यते रूपादिष्वित्यर्थः, एवं शब्देष्वपि मूर्छति, अपिशब्दः सम्भावनायां समुच्चये वा, रूपशब्दविषयग्रहणाच्च शेषा अपि गन्धरसस्पर्शा गृहीता भवन्ति, एकग्रहणे तज्जातीयानां ग्रहणाद्, आद्यन्तग्रहणाद्वा तन्मध्यग्रहणमवसेयमिति // 42 // एवं विषयलोकमाख्याय विवक्षितमाह एस लोए वियाहिए एत्थ अगुत्ते अणाणाए। सूत्रम् 43 // एष इति रूपरसगन्धस्पर्शशब्दविषयाख्यो लोको व्याख्यातः, लोक्यते परिच्छिद्यते इतिकृत्वा, एतस्मिंश्च प्रस्तुते शब्दादिगुणलोकेऽगुप्तो यो मनोवाक्कायैः मनसा द्वेष्टि रज्यते वा वाचा प्रार्थनं शब्दादीनां करोति कायेन शब्दादिविषयदेशमभिसर्पति, एवं यो ह्यगुप्तो भवति सोऽनाज्ञायां वर्तते, न भगवत्प्रणीतवचनानुसारीतियावदिति // 43 // एवं गुणश्च यत्कुर्यात्तदाह (r) अध (मु०)।
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy