________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 110 // श्रुतस्कन्धः 1 प्रथममध्ययनं शस्त्रपरिज्ञा, पञ्चमोद्देशकः सूत्रम् 40 अनगारत्वम् मतिरस्यास्तीति मतिमान्, मतिमानेवोपदेशा) भवतीत्यतस्तद्वारेणैव शिष्यामन्त्रणं हे मतिमन्! प्रव्रज्यां प्रतिपद्य जीवादिपदार्थांश्च ज्ञात्वा मोक्षमवाप्नोतीति, सम्यग्ज्ञानपूर्विका हि क्रिया फलवतीति दर्शितं भवति / पुनरत्रैवाह- अभयं विदित्ता अविद्यमानं भयमस्मिन्सत्त्वानामित्यभयः-संयमः,सच सप्तदशविधानस्तं चाभयं सर्वभूतपरिपालनात्मकं संसारसागरान्नि हकं विदित्वा वनस्पत्यारम्भान्निवृत्तिर्विधेयेति / एतदेव दर्शयितुमाह- तं जे नो करए इत्यादि, तं वनस्पत्यारम्भं यो विदिततदारम्भकटुकविपाकः नो कुर्यात्, तस्य प्रतिविशिष्टेष्टफलावाप्तिर्नान्यस्यान्धमूढ्या प्रवर्त्तमानस्य, अभिलषितविप्रकृष्टस्थानप्राप्तिप्रवृत्तान्धक्रियाव्याघातवदिति मन्तव्यम्, ज्ञानमपि क्रियाहीनं न मोक्षाय, गृहान्तर्दह्यमाननिनङ्कपञ्चक्षुर्ज्ञानवदिति, एवं ज्ञात्वाऽभ्युपेत्य च तत्परिहारः कर्त्तव्य इति दर्शितं भवति / एवं यः सम्यग्ज्ञानपूर्विकां निवृत्तिं करोति स एव समस्तारम्भनिवृत्त इति दर्शयति- एसोवरए त्ति, एष एव सर्वस्मादारम्भावनस्पतिविषयादुपरतो यो यथावज्ज्ञात्वाऽऽरम्भं न करोतीति, स पुनरेवंविधनिवृत्तिभाक्किं शाक्यादिष्वपि सम्भवत्युतेहैव प्रवचन इति दर्शयति एत्थोवरए त्ति, एतस्मिन्नेव जैनेन्द्रे प्रवचने परमार्थत उपरतो नान्यत्र, यथाप्रतिज्ञातनिरवद्यानुष्ठायित्वादुपरतव्यपदेशभाग् भवति न शेषाः शाक्यादयः, तद्विपरीतत्वाद्, एष एव च सम्पूर्णानगारव्यपदेशमश्नुत इति दर्शयति एस अणगारेत्ति पवुच्चई 'एषः' अतिक्रान्तसूत्रार्थव्यवस्थितोऽविद्यमानागारोऽनगारः प्रकर्षेण उच्यते प्रोच्यत इति, किंकृतः प्रकर्षः?, अनगारव्यपदेशकारणभूतगुणकलापसम्बन्धकृतः प्रकर्षः, इतिशब्दोऽनगारव्यपदेशकारणपरिसमाप्तिद्योती, एतावदनगारलक्षणं नान्यदिति, ये पुनः प्रोज्झितपारमार्थिकानगारगुणाः शब्दादीन्विषयानङ्गीकृत्य प्रवर्त्तन्ते ते तु नापेक्षन्ते वनस्पतीन् जीवान्, यतो भूयांसः शब्दादयो गुणा वनस्पतिभ्य एव निष्पद्यन्ते, शब्दादिगुणेष्वेव वर्तमाना रागद्वेषविषमविषविघूर्णमानलोललोचना नरकादिचतुर्विध // 110 //