SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्ध:१ // 109 // श्रुतस्कन्धः१ प्रथममध्ययनं | शस्त्रपरिज्ञा, | पञ्चमोद्देशकः नियुक्ति: 151 सूत्रम् 40 अनगारत्वम् भावशस्त्रं पुनरसंयमः दुष्प्रणिहितमनोवाक्कायलक्षण इति // 150 // सकलनियुक्त्यर्थपरिसमाप्तिप्रचिकटयिषयाऽऽह नि०- सेसाईदाराईताईजाईहवंति पुढवीए। एवं वणस्सईए निजुत्ती कित्तिया एसा // 151 // उक्तव्यतिरिक्तशेषाणि तान्येव द्वाराणि यानि पृथिव्यामभिहितानि ततस्तद्दाराभिधानाद्वनस्पतौ नियुक्तिः कीर्त्तिता व्यावर्णितेति॥ 151 // साम्प्रतं सूत्रानुगमे अस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदं तंणो करिस्सामि समुट्ठाए, मत्ता मइमं, अभयं विदित्ता, तंजेणो करए, एसोवरए, एत्थोवरए, एस अणगारेत्ति पवुच्चई। सूत्रम् 40 // अस्य चानन्तरपरम्परादिसूत्रः सम्बन्धः प्राग्वद्वाच्यः, उक्तं प्राक् सातान्वेषिणो हि वनस्पतिजन्तूनां दुःखमुदीरयन्ति, ततश्च तन्मूलमेव दुःखगहने संसारसागरे भ्राम्यन्ति सत्त्वाः इत्येवं विदितकटुकविपाकः समस्तवनस्पतिसत्त्वविषयविमर्दनिवृत्तिमात्यन्तिकीमात्मनि दर्शयन्नाह- तत् वनस्पतीनांदुःखमहं दृष्टप्रत्यपायो न करिष्ये, यदिवा तद्दुःखोत्पत्तिनिमित्तभूतं वनस्पतावारम्भंछेदनभेदनादिरूपं नो करिष्ये मनोवाक्कायैः, तथाऽपरैर्न कारयिष्ये, तथा कुर्वतश्चान्यान्नानुमंस्ये, किं कृत्वेति दर्शयतिसर्वज्ञोपदिष्टमार्गानुसृत्या सम्यक् प्रव्रज्योत्थानेनोत्थाय समुत्थाय, प्रव्रज्यां प्रतिपद्येत्यर्थः, तदेवं वर्जितसकलसावद्यारम्भकलापः संस्तद्वनस्पतिदुःखं तदारम्भंवा नो करिष्यामीति, अनेन च संयमक्रिया दर्शिता, न च क्रियात एव मोक्षावाप्तिः, किं तर्हि?, ज्ञानक्रियाभ्याम्, तदुक्तं- नाणं किरियारहियं किरियामेत्तं च दोऽवि एगन्ता / न समत्था दाउं जे जम्ममरणदुक्खदाहाई॥ 1 // यत एवमतो विशिष्टमोक्षकारणभूतज्ञानप्रतिपिपादयिषयाऽऽह- मत्ता मइमं मत्वा- ज्ञात्वा अवबुध्य यथावज्जीवान्, ॐ ज्ञान क्रियारहितं क्रियामात्रं च द्वे अप्येकान्तात् / न समर्थे दातुं यानि जन्ममरणदुःखदाहकानि // 1 / / // 102
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy