________________ श्रीआचारा नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 108 // श्रुतस्कन्धः१ प्रथममध्ययनं शस्त्रपरिज्ञा, पञ्चमोद्देशकः नियुक्तिः 148-150 वनस्पतिभेदाः कमालतीविचकिलादयः, ध्मापनं-दाहो भस्मसात्करणमिन्धनैः, वितापनं- शीताभ्यर्दितस्य शीतापनयनाय काष्ठप्रज्वालनात्, तैलविधानं-तिलातसीसर्षपेङ्गदीज्योतिष्मतीकरजादिभिः, उद्योतो- वर्तितृणचूडाकाष्ठादिभिरिति // 147 // एवमेतान्युपभोगस्थानानि प्रतिपाद्य तदुपसज्डिहीर्षुराह नि०- एएहिं कारणेहिं हिंसंति वणस्सई बहू जीवे / सायं गवेसमाणा परस्स दुक्खं उदीरंति // 148 // दारं // एतै र्गाथाद्वयोपात्तैः कारणैः प्रयोजनैः हिंसन्ति व्यापादयन्ति प्रत्येकसाधारणवनस्पतिजीवान् बहून् वनस्पतिसमारम्भिणः पुरुषाः, किंभूतास्त इति दर्शयति-सातं सुखं तदन्वेषिणः परस्य वनस्पत्यायेकेन्द्रियादेः दुःखं बाधामुत्पादयन्ति // 148 // साम्प्रतं शस्त्रमुच्यते- तच्च द्विधा- द्रव्यभावभेदात्, द्रव्यशस्त्रमपि समासविभागभेदात् द्विधैव, तत्र समासद्रव्यशस्त्राभिधित्सयाऽऽह नि०- कप्पणिकुहाडिअसियगदत्तियकुद्दालवासिपरसू अ। सत्थं वणस्सईए हत्था पाया मुहं अग्गी // 149 // कल्प्यते-छिद्यते यया सा कल्पनी-शस्त्रविशेषः, कुठारी प्रसिद्धैव, असियगं-दात्रम्, दात्रिका-प्रसिद्धा, कुद्दालकवासिपरशवश्च, एतद्वनस्पतेःशस्त्रम्, तथा हस्तपादमुखाग्नयश्चइत्येतत्सामान्यशस्त्रमिति // 149 // विभागशस्त्राभिधित्सयाऽऽह नि०- किंची सकायसत्थं किंची परकाय तदुभयं किंची। एयं तु दव्वसत्थं भावे य असंजमो सत्थं // 150 // किञ्चित् स्वकायशस्त्रं-लकुटादिकिश्चिच्च परकायशस्त्रं-पाषाणाग्न्यादितथोभयशस्त्रं-दात्रदात्रिकाकुठारादि, एतद्रव्यशस्त्रम्, 0 एते (मु०)। // 108