________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ / / 107 // श्रुतस्कन्धः१ प्रथममध्ययन शस्त्रपरिज्ञा, पञ्चमोद्देशकः नियुक्तिः 145-147 वनस्पतिभेदाः नि०-जे बायरपज्जत्ता पयरस्स असंखभागमित्ता ते / सेसा असंखलोया तिन्निवि साहारणाणंता // 145 // ये पर्याप्तकबादरनिगोदास्ते संवर्त्तितचतुरश्रीकृतसकललोकप्रतरासङ्ग्येयभागवर्तिप्रदेशराशिपरिमाणा भवन्ति, एते पुनःप्रत्येकशरीरबादरवनस्पतिपर्याप्तकजीवेभ्योऽसङ्खयेयगुणाः, शेषास्त्रयोऽपि राशयः प्रत्येकमसङ्ख्येयलोकाकाशप्रदेशपरिमाणाः, के पुनस्त्रय इति?, उच्यन्ते, अपर्याप्तकबादरनिगोदा अपर्याप्तकसूक्ष्मनिगोदाः पर्याप्तकसूक्ष्मनिगोदाः, एते च क्रमशो बहुतरका द्रष्टव्या इति, साधारणजीवास्तेभ्योऽनन्तगुणाः, एतच्च जीवपरिमाणम्, प्राक्तनं तु राशिचतुष्टयं निगोदपरिमाणमिति // 145 // परिमाणद्वारानन्तरमुपभोगद्वारमभिधित्सुराह नि०- आहारे उवगरणे सयणासण जाण जुग्गकरणे य / आवरण पहरणेसु असत्थविहाणेसु अबहुसुं॥१४६॥ आहार:-फलपत्रकिशलयमूलकन्दत्वगादिनिर्वर्त्यः, उपकरणं व्यजनकटककवलकार्गलादि, शयनं- खट्टाफलकादि, आसनं- आसन्दकादि, यानं-शिबिकादि, युग्य-गन्त्रिकादि, आवरण-फलकादि, प्रहरणं-लकुटमुसुण्ढ्यादि, शस्त्रविधानानि च बहूनि तन्निर्वानि, शरदात्रखगक्षुरिकादिदण्डोपयोगित्वादिति // 146 // तथाऽपरोऽपि परिभोगविधिः, तद्दर्शनायाह नि०-आउज्ज कट्ठकम्मे गंधंगे वत्थ मल्ल जोए य / झावणवियावणेसु अतिल्लविहाणे अउज्जोए / / 147 // आतोद्यानि-पटहभेरीवंशवीणाझल्लादीनि, काष्ठकर्म-प्रतिमास्तम्भद्वारशाखादि, गन्धाङ्गानि- वालकप्रियङ्गपत्रकदमनकत्वक्कन्दनोशीरदेवदार्वादीनि, वस्त्राणि- वल्कलकसमयादीनि, माल्ययोगा- नवमालिकाबकुलचम्पकपुन्नागाशो दिगण्डोप० (मु०)। // 107 //