SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ श्रीआचारा नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 111 // श्रुतस्कन्ध:१ प्रथममध्ययनं शस्त्रपरिज्ञा, पञ्चमोद्देशक: सूत्रम् 41 गुणावर्तयो रेक्यम् गत्यन्तःपातिनो बोद्धव्याः, तदन्त:पातिन एव च शब्दादिविषयाभिष्वङ्गिणो भवन्तीति // 40 // अस्यार्थस्य प्रसिद्धये गतप्रत्यागतलक्षणमितरेतरावधारणफलं सूत्रमाह जे गुणे से आवट्टे जे आवट्टे से गुणे // सूत्रम् 41 // यो गुणः शब्दादिकः स आवतः, आवर्तन्ते-परिभ्रमन्ति प्राणिनो यत्र स आवतः- संसारः, इह च कारणमेव कार्यत्वेन व्यपदिश्यते यथा नड्डलोदकं पादरोगः, एवं य एते शब्दादयो गुणाः स आवर्त्तः, तत्कारणत्वात्, अथवैकवचनोपादानात्पुरुषोऽभिसम्बध्यते, यः शब्दादिगुणे वर्त्तते स आवर्ते वर्त्तते, यश्चावर्ते वर्त्ततेस गुणे वर्तत इति, अत्र कश्चिच्चोद्यचक्षुराह-यो। गुणेषु वर्तेते स आवर्ते वर्त्तत इति साधु, यः पुनरावर्ते वर्त्तते नासौ नियमत एव गुणेषु वर्त्तते, यस्मात्साधवो वर्तन्त आवर्तन गुणेषु तदेतत्कथमिति, अत्रोच्यते, सत्यम्, आवर्ते यतयो वर्त्तन्ते न गुणेषु, किन्तु रागद्वेषपूर्वकं गुणेषु वर्तनमिहाधिक्रियते, तच्च साधूनां न सम्भवति, तदभावात्, आवर्तोऽपि संसरणरूपो दुःखात्मको न सम्भवति, सामान्यतस्तु संसारान्तःपातित्वं सामान्यशब्दादिगुणोपलब्धिश्चसम्भवत्येवातो नोपलब्धिः प्रतिषिध्यते, रागपरिणामो द्वेषपरिणामो वा यस्तत्रस प्रतिषिध्यते, तथा चोक्तं कण्णसोक्खेहिं सद्देहिं पेम्मं नाभिनिवेसए, इत्यादि, तथा न शक्यं रूपमद्रष्टुं, चक्षुर्गोचरमागतम् / रागद्वेषौ तु यौ तत्र, तौल बुधः परिवर्जयेत् // 1 // कथं पुनर्गुणभूयस्त्वं वनस्पतिभ्य इति प्रदर्श्यते- वेणुवीणापटहमुकुन्दादीनामातोद्यविशेषाणां वनस्पतेरुत्पत्तिः, ततश्च मनोहराः शब्दा निष्पद्यन्ते, प्राधान्यमत्र वनस्पतेर्विवक्षितम्, अन्यथा तु तन्त्रीचर्मपाण्यादिसंयोगाच्छब्दनिष्पत्तिरिति, रूपं पुनः काष्ठकर्मस्त्रीप्रतिमादिषु गृहतोरणवेदिकास्तम्भादिषु च चक्षू रमणीयम्, गन्धा अपि हि 7 कर्णसौख्येषु शब्देषु प्रेम नाभिनिवेशयेत् /
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy