SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 104 // श्रुतस्कन्धः१ प्रथममध्ययनं शस्त्रपरिज्ञा, पञ्चमोद्देशकः नियुक्तिः 137-138 वनस्पतिभेदाः सर्वेऽप्याहारितवन्तस्तथैकस्मिन्नुच्छ्रसिते निःश्वसिते वा सर्वेऽप्युच्छ्रुसिता निःश्वसिता वेति // 136 // अमुमेवार्थं स्पष्टयितुमाह नि०- एगस्स उजंगहणं बहूण साहारणाण ते चेव / जंबहुयाणं गहणं समासओ तंपि एगस्स // 137 // एको यदुच्छ्रासनिःश्वासयोग्यपदलोपादनं विधत्ते बहूनामपि साधारणजीवानां तदेव भवति, तथा यच्च बहवो ग्रहणमकाषुरेका स्यापि तदेवेति // 137 // अथ ये बीजात्प्ररोहन्ति वनस्पतयस्तेषां कथमाविर्भाव इत्यत आह___ नि०- जोणिब्भूए बीए जीवो वक्कमइ सो व अन्नो वा / जोऽवि यमूले जीवो सो च्चिय पत्ते पढमयाए॥१३८॥ ___ अत्र भूतशब्दोऽवस्थावचनः, योन्यवस्थे बीजे योनिपरिणाममजहतीत्यर्थः, बीजस्य हि द्विविधावस्था-योन्यवस्थाऽयोन्यवस्था च, यदा योन्यवस्थां न जहाति बीजमुज्झितं च जन्तुना तदा योनिभूतमुच्यते, योनिस्तु जन्तोरुत्पत्तिस्थानमविनष्टमिति, तस्मिन् बीजे योनिभूते जीवो व्युत्क्रामति उत्पद्यते, स एव पूर्वको बीजजीवोऽन्यो वाऽऽगत्य तत्रोत्पद्यते, एतदुक्तं भवति-यदा जीवेनायुषः क्षयाबीजपरित्यागः कृतो भवति, तस्य च यदा बीजस्य क्षित्युदकादिसंयोगस्तदा कदाचित्स एव प्राक्तनो जीवस्तत्रागत्य परिणमते कदाचिदन्य इति, यश्च मूलतया जीवः परिणमते स एव प्रथमपत्रतयाऽपीति, एकजीवकर्तृके मूलपत्रे / इतियावत्, प्रथमपत्रकं च याऽसौ बीजस्य समुच्छूनावस्था भूजलकालापेक्षा सैवोच्यत इति, नियमप्रदर्शनमेतत्, शेषं तु किशलयादि सकलं न मूलजीवपरिणामाविर्भावितमेवेत्यवगन्तव्यमिति // 138 // यत उक्तं-सव्वोऽवि किसलओ खलु उग्गममाणो अणन्तओ भणिओ इत्यादि / तथाऽपरं साधारणलक्षणमभिधित्सुराह O सर्वोऽपि किशलयः खलूदच्छन्ननन्तको भणितः। 104 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy