SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः 1 // 103 // श्रुतस्कन्ध:१ प्रथममध्ययन शस्त्रपरिज्ञा, पञ्चमोद्देशकः नियुक्तिः 135-136 वनस्पतिभेदा: अपि पृथक् पृथगनन्तानां लोकानां यावन्तः प्रदेशास्तावन्त इति, अयं तु विशेषः-साधारणबादरपर्याप्तकेभ्यो बादरा अपर्याप्तका असंख्येयगुणा: बादरापर्याप्तकेभ्यः सूक्ष्मा: अपर्याप्तका असङ्खयेयगुणास्तेभ्योऽपिसूक्ष्माः पर्याप्तकाः असङ्खयेयगुणा इति / / १३४॥सम्प्रत्येषांतरूणां यो जीवत्वं नेच्छति तं प्रति जीवत्वप्रतिपादनेच्छया नियुक्तिकृदाह नि०- एएहिं सरीरेहिं पञ्चक्खं ते परूविया जीवा / सेसा आणागिज्झा चक्खुणा जे न दीसंति // 135 / / एतैः पूर्वप्रतिपादितैस्तरुशरीरैः प्रत्यक्षप्रमाणविषयैः प्रत्यक्षं साक्षात् ते वनस्पतिजीवाः प्ररूपिताः प्रसाधिताः, तथाहि-न होतानि शरीराणि जीवव्यापारमन्तरेणैवंविधाकारभाजि भवन्ति, तथा च प्रयोग:- जीवशरीराणि वृक्षाः, अक्षाधुपलब्धिभावात्, पाण्यादिसङ्घातवत्, तथा कदाचित् सचित्ता अपि वृक्षाः, जीवशरीरत्वात्, पाण्यादिसङ्गातवदेव, तथा मन्दविज्ञानसुखादिमन्तस्तरवः, अव्यक्तचेतनानुगतत्वात्, सुप्तादिपुरुषवत्, तथा चोक्तं- वृक्षादयोऽक्षाधुपलब्धिभावात्पाण्यादिसङ्घातवदेव देहाः / तद्वत्सजीवा अपि देहतायाः, सुप्तादिवत् ज्ञानसुखादिमन्तः॥१॥ शेषा इति सूक्ष्मास्ते च चक्षुषा नोपलभ्यन्त इत्याज्ञया ग्राह्या इति, आज्ञा च भगवद्वचनमवितथमरक्तद्विष्टप्रणीतमिति श्रद्धातव्यमिति // 135 // साम्प्रतं साधारणलक्षणमभिधित्सुराह नि०- साहारणमाहारो साहारण आणपाणगहणं च ।साहारणजीवाणं साहारणलक्खणं एयं // 136 // समानमेकम्, धारणमङ्गीकरणं शरीराहारादेर्येषां ते साधारणाः, तेषां साधारणानामनन्तकायानां जीवानां साधारणं सामान्यमेकमाहारग्रहणं तथा प्राणापानग्रहणं च साधारणमेव, एतत्साधारणलक्षणम्, एतदुक्तं भवति-एकस्मिन्नाहारितवति // 103 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy