SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ श्रीआचारा नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 102 // | श्रुतस्कन्धः१ प्रथममध्ययनं शस्त्रपरिज्ञा, पञ्चमोद्देशकः नियुक्तिः 132-134 वनस्पतिभेदाः पादितम्, तथेति शब्बपादानादिति // 131 // अस्मिन्नेवार्थे दृष्टान्तान्तरमाह नि०-जह वा तितसक्कुलिया बहुएहिं तिलेहि मेलिया संती। पत्तेयसरीराणं तह हुँति सरीरसंघाया॥१३२॥ यथा वा तिलशष्कुल्किा-तिलप्रधाना पिष्टमयपोलिका बहुभिस्तिलैर्निष्पादिता सती भवति, तथा प्रत्येकशरीराणां तरूणां शरीरसङ्घाता भवन्तीति दृष्टव्यमिति ॥१३२॥साम्प्रतं प्रत्येकशरीरजीवानामेकानेकाधिष्ठितत्वप्रतिपिपादयिषयाऽऽह नि०- नाणाविहसंवेणा दीसंती एगजीविया पत्ता ।खंधावि एगजीवा तालसरलनालिएरीणं / / 133 // / नानाविधं-भिन्नं संस्थानं येषां तानि नानाविधसंस्थानानि पत्राणि यानि चैवंभूतानि दृश्यन्ते तान्येकजीवाधिष्ठितान्यवगन्तव्यानि, तथा स्कन्था अप्येकजीवाधिष्ठितास्तालसरलनालिकेर्यादीनाम्, नात्रानेकजीवाधिष्ठितत्वं सम्भवतीति, अवशिष्टानां त्वनेकजीवाधिष्ठितत्वं सामर्थ्यात्प्रतिपादितं भवति // 133 // साम्प्रतं प्रत्येकतरुजीवराशिपरिमाणाभिधित्सयाऽऽह नि०- पत्तेया पज्जत्ता सेढी' असंखभागमित्ता ते। लोगासंखप्पज्जत्तगाण साहारणाणंता // 134 // प्रत्येकतरुजीवाः पर्याप्तकाः संवर्तितचतुरस्रीकृतलोकश्रेण्यसंख्येयभागवाकाशप्रदेशराशितुल्यप्रमाणाः, एते च पुनर्बादरतेजस्कायपर्याप्तकराशेरसङ्खयेयगुणाः, ये पुनरपर्याप्तकाः प्रत्येकतरुजन्तवस्ते ह्यसङ्खयेयानां लोकानां यावन्तः प्रदेशास्तावन्त इति, एतेऽप्यपर्याप्तका बादरतेजस्कायजीवराशेरसङ्खयेयगुणाः, सूक्ष्मास्तु वनस्पतयः प्रत्येकशरीरिणः पर्याप्तका अपर्याप्तका वा न सन्त्येव, साधारणास्त्वनन्ता इति विशेषानुपादानात्, साधारणाः सूक्ष्मबादरपर्याप्तकापर्याप्तकभेदेन चतुर्विधा // 102 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy