________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 100 // श्रुतस्कन्धः 1 प्रथममध्ययनं शस्त्रपरिज्ञा, पञ्चमोद्देशकः नियुक्तिः 128-129 वनस्पतिभेदाः नि०-स्तेया साहारण बायरजीवा समासओ दुविहा / बारसविहऽणेगविहा समासओ छव्विहा हुंति // 128 // बादराः समसतः द्विविधाः-प्रत्येकाः साधारणाश्च, तत्र पत्रपुष्पमूलफलस्कन्धादीन् प्रति प्रत्येको जीवो येषां ते प्रत्येकजीवाः, साधारपास्तु परस्परानुविद्धानन्तजीवसङ्घातरूपशरीरावस्थानाः, तत्र प्रत्येकशरीरा द्वादशविधानाः, साधारणास्त्वनेकभेदाः, सर्वेऽपेते समासतः षोढा प्रत्येतव्याः॥१२८ // तत्र प्रत्येकतरुद्वादशभेदप्रत्यायनायाह नि०- रुक्खागुच्छा गुम्मा लया य वल्ली य पव्वगा चेव / तणवलयहरियओसहिजलरुहकुहणा य बोद्धव्वा / / 129 // वृश्च्यन्त इति वृक्षाः, ते द्विविधाः-एकास्थिका बहुबीजकाच, तत्रैकास्थिका:- पिचुमन्दानकोशम्बशालाङ्कोल्लपीलुसल्लक्यादयः, बहुबीजकास्तु-उदुम्बरकपित्थास्तिकतिन्दुकबिल्वामलकपनसदाडिममातुलिङ्गादयः, गुच्छास्तु-वृन्ताकीकर्पासीजपाआढकीतुलसीकुसुम्भरीपिप्पलीनील्यादयः, गुल्मानि तु- नवमालिकासेरियककोरण्टकबन्धुजीवकबाणकरवीरसिन्दुवारविचकिलजातियूथिकादयः, लतास्तु- पद्मनागाशोकचम्पकचूतवासन्तीअतिमुक्तककुन्दलताद्याः,वल्लयस्तुकुष्माण्डीकालिङ्गीत्रपुषीतुम्बीवालुङ्कीएलालुकीपटोल्यादयः, पर्वगाः पुनः-इक्षुवीरणशुण्ठशरवेत्रशतपर्ववंशनलवेणुकादयः,तृणानि तु-श्वेतिकाकुशदर्भपर्वकार्जुनसुरभिकुरुविन्दादीनि, वलयानि च- तालतमालतकलीशालसरलाकेतकीकदलीकन्दल्यादीनि, हरितानि- तन्दुलीयकाधूयारुहवस्तुलबदरकमार्जारपादिकाचिल्लीपालक्यादीनि, औषध्यस्तु-शालीव्रीहिगोधूमयवकलममसूरतिलमुद्माषनिष्पावकुलत्थातसीकुसुम्भकोद्रवकब्वादयः, जलरुहा- उदकावकपनकशैवलकलम्बुकापावककशेरुकउत्पलपद्मकुमुदनलिनपुण्डरीकादयः, कुहुणास्तु- भूमिस्फोटकाभिधाना आयकायकुहुणकुण्डु©शतपत्री. (प्र०)। 7 वर्चका. (प्र०)। 0 0 त्रिल्लरी० (प्र०)। 0 पावाक० (प्र०)। 7 कुहणेति (नि०)। // 10